________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
द्वितीय
उद्देशकः
५६५ (B)
www.kobatirth.org
उव्वरयस्स य असती, पुव्वखयाऽसती य खम्मए अगडो । तस्सोवरिं च चक्कं, न फिडइ जह उप्फिडंतो वि ॥ १०८० ॥
Acharya Shri Kailassagarsuri Gyanmandir
[बृ.क.भा. ६२१५]
अपवरकस्य असति अभावे पूर्वखाते कूपे निर्जले स प्रक्षिप्यते। तस्याप्यभावे अवटो नवः खन्यते, खनित्वा च तत्र स प्रक्षिप्यते, प्रक्षिप्य च तस्याऽवटकस्योपरि चक्रं रथाङ्गं स्थगनाय दीयते, यथा स उत्स्फिटन्नपि उत्प्लवमानोऽपि न स्फिटति न बहिर्गच्छति ॥१०८० ॥ साम्प्रतम् " आहारविगिंचणे "त्यादि व्याख्यानयति
निद्धमहुरं च भत्तं, करीससेज्जा य नो जहा वाऊ । दारं ३ । दिव्विय धातुक्खोभे, नाउं उस्सग्ग तो किरिया ॥ १०८१ ॥ दारं ४ । [बृ.भा. ६२१६]
यदि 'वातादिना धातुक्षोभोऽस्य सञ्जात:' इति ज्ञायते तदा भक्तमपथ्यपरिहारेण स्निग्धं मधुरं च तस्मै दातव्यम् । शय्या च करीषमयी कर्त्तव्या, सा हि सोष्णा भवति,
For Private and Personal Use Only
गाथा १०७७-१०८१ क्षिप्तचित्ते
यतना
५६५ (B)