________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
द्वितीय उद्देशकः
५५७ (A)
अनवस्थः अनवस्थाप्यः पाराञ्ची पाराञ्चितः पूर्वं कल्पाध्ययने भणितः। इदं तु . वक्ष्यमाणं नानात्वम्- तत्र ग्लानस्य सतश्चिन्ता न कृता, अत्र तु क्रियते। कथम्? इत्याहग्लानस्य सतो गणावच्छेदिना आचार्येण च यथासूत्रं वैयावृत्त्यं कर्त्तव्यम्। यदि पुनर्न कुरुते ततो अकरणे चत्वारो गुरुका: गुरुमासाः प्रायश्चित्तम्। तथा आज्ञादय आज्ञा-ऽनवस्थामिथ्यात्वविराधनादोषाः ॥१०५६॥
सम्प्रति पाराञ्चितं प्रत्याचार्यस्य वैयावृत्त्यकरणे शिक्षामाहओलोयणं गवेसण, आयरिओ कुणति सव्वकालं पि। उप्पण्णे कारणम्मी, सव्वपयत्तेण कायव्वं ॥ १०५७ ॥
अवलोकनं निरीक्षणं क्षेत्रबहि:स्थितस्य पाराञ्चितस्य, गवेषणं तद्योग्यस्य भक्तपानादेः, आचार्यः सर्वकालमपि यावत् पाराञ्चितावस्थायाः कालस्तावन्तं सकलमपि कालं यावत्करोति। उत्पन्ने कारणे ग्लानत्वादिलक्षणे पुनः सर्वप्रयत्नेन कर्तव्यमाचार्येण ॥१०५७॥
गाथा
१०५५-१०५९
ग्लानस्य
वैयावृत्त्य
सामाचारी
५५७ (A)
For Private and Personal Use Only