________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् द्वितीय उद्देशकः ५५६ (B)
सगणे गिलायमाणं, कारणपरगच्छमागयं वावि। मा हु न कुज्जा निजूहगो त्ति इइ सुत्तसंबंधो ॥ १०५५ ॥
यथा अनवस्थाप्यस्य कर्तव्यं तथा प्रतिपन्नपाराञ्चितप्रायश्चित्तस्यापि, न पुनरेषः निर्वृहितः निष्काशित इति कृत्वा स्वगणे ग्लायन्तं रोगातङ्कवशतो ग्लानिमुपगच्छन्तम् | यदि वा प्रागुक्तैरशिवादिभिः कारणैः परगच्छमागतं मा हुः निश्चितं वैयावृत्त्यविषयं न कुर्याद् न कार्षीत्, किन्तु तस्यापि वैयावृत्त्यमवश्यमगिलया कर्तव्यम्। तत्र स्वगणे | क्षेत्रबहि:स्थितस्याऽऽचार्यः स्वयमुदन्तं वहति, परगणेऽपि कारणवशादायातस्य तदीय | आचार्यः करोति यथासूत्रं वैयावृत्त्यम्, इत्येषः पूर्वसूत्रेण सहास्य सूत्रस्य सम्बन्धः ॥१०५५॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या कर्तव्या। सा च प्राग्वत्। साम्प्रतमनवस्थाप्यपाराञ्चितयोः स्वरूपमतिदेशत आह
अणवट्ठो पारंची, पुव्वं भणितो इमं तु णाणत्तं। कायव्व गिलाणस्स उ, अकरणे गुरुगा य आणादी ॥ १०५६ ॥
सूत्र ९
गाथा १०५५-१०५९ ग्लानस्य वैयावृत्त्य सामाचारी
५५६ (B)
For Private and Personal Use Only