SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् पीठिका १०६ (A) www.kobatirth.org 'तिविहे तेगिच्छम्मि, उज्जुय- वाउलण - साहणा चेव । पण्णवणमणिच्छंते, दिट्टंतो भंडिपोएहिं ॥ १७८ ॥ Acharya Shri Kailassagarsuri Gyanmandir त्रिविधे त्रिप्रकारे आचार्योपाध्याय - भिक्षुलक्षणे चिकित्स्ये चिकित्स्यमाने गीतार्थे इति गम्यते, उज्जुयत्ति ऋजुकं स्फुटमेव व्यापृतसाधना व्यापृतक्रियाकथनं कर्त्तव्यम् । इयमत्र भावना-आचार्याणामुपाध्यायानां गीतार्थानां च भिक्षूणां विचिकित्स्यमानानां यदि शुद्धं प्रासुकमेषणीयं लभ्यते, तदा समीचीनमेव, न तत्र विचारः, अथ प्रासुकमेषणीयं न लभ्यते अवश्यं च चिकित्सा कर्त्तव्या तदा अशुद्धमप्यानीय दीयते, तथाभूते च दीयमाने स्फुटमेव निवेद्यते 'इदमेवम्भूतम्' इति तेषां गीतार्थत्वेनाऽपरिणामदोषस्यातिपरिणामदोषस्य चाs - सम्भवात् । अगीतार्थभिक्षोः पुनः शुद्धाऽलाभे चिकित्सामशुद्धेन कुर्वन्तो मुनिवृषभा यतनया कुर्व्वन्ति, न चाशुद्धं कथयन्ति । यदि पुनः कथयन्ति अयतनया वा कुर्वन्ति, तदा सोऽ- चिकित्सापरिणामत्वादनिच्छन् यत् अनागाढादिपरितापनमनुभवति तन्निमित्तं प्रायश्चित्तमापद्यते तेषां मुनिवृषभाणां यद्वाऽतिपरिणामकतया सोऽतिप्रसङ्गं कुर्यात्, तस्मान्न कथनीयं नाप्ययतना गाथा १७८-१८० विधि स्वरूपम् १०६ (A) १. तिन्ह वि तेगि० जेभा० खंभा० चूर्णि प्रत्यन्तरेषु च ॥ २. ०च्छम्मि उ उज्ज० वा० पु० ॥ For Private And Personal Use Only
SR No.020934
Book TitleVyavahar Sutram Part 01 pithika
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy