________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम् पीठिका १०५ (B)
माचार्यादित्रिविधभेदसमर्थनायोक्तरूपदृष्टान्तवशतो गीतार्थाऽगीतार्थादिभेदतः आभवत्प्रायश्चित्तनानात्वं विशोधिनानात्वं चोपदर्शितम्। इदानीमत एव दृष्टान्तादवस्थाभेदतो गीतार्थे एव केवले शोधिनानात्वमुपदर्शयतिएसेव यं दिटुंतो, तिविहे गीयम्मि सोहिनाणत्ते ।
त्थुसरिसो उ दंडो, दिजइ लोए वि पुव्वुत्तं ॥ १७७ ॥ गीते गीतार्थे त्रिविधे त्रिप्रकारे बाल-तरुण-वृद्धलक्षणे यत् शोधिनानात्वं तद्विषये एष एव अनन्तरोदितस्वरूपो दृष्टान्तः, तथाहि- यथा कल्प्याऽकल्प्यविधिपरिज्ञानविकलो अकल्पनीयमपि कल्पनीयमिति बुद्ध्या प्रतिसेवमानो न दोषवान् भवति, कोविदस्तु कल्प्याऽकल्प्ये जानानोऽकल्पनीयं प्रतिसेवमानो दोषवान् । एवमिहापि तुल्ये प्रतिसेव्यमाने वस्तुनि तरुणे प्रभूतं प्रायश्चित्तं, समर्थत्वात्। बाल-वृद्धयोः स्तोकम्, असमर्थत्वात्, न | चैतदन्याय्यं, यतो लोकेऽपि वस्तुसदृशः पुरुषानुरूपो दण्डो दीयते। तथाहि-बाले बृद्धे च महत्यप्यपराधे करुणाऽऽस्पदत्वात् स्तोको दण्डः, तरुणे महान्। एतच्च पुव्वुत्तमिति प्रागेवोक्तं 'दोसविहवाणुरूवो' [गा.१७२] इत्यादिना, ततो न्याय्यमनन्तरोदितमिति ॥१७७॥ सम्प्रत्याचार्योपाध्याय-भिक्षूणामेव चिकित्साविषये विधिनानात्वं दर्शयति१. तु -भाष्यप्रतिषु ॥
गाथा | १७३-१७७ प्रायश्चित्तदानभेदे कारणानि
| १०५ (B)
For Private And Personal Use Only