________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम् पीठिका
९४ (B)
www.kobatirth.org
* पदमत्रापि 'व्याख्यानतो विशेषप्रतिपत्तिः' इति विभक्तिपरिणामेन सम्बध्यते, लघुरात्रिन्दिवपंचकं गुरुरात्रिंदिवपञ्चकं च । तत्र लघुरात्रिन्दिवपञ्चकमाचाम्लेन एकद्वयादिदिनैर्वा हीनं, परिपूर्णं गुरुरात्रिन्दिवपञ्चकम् । एवं दसत्ति लघुरात्रिन्दिवदशकं गुरुरात्रिन्दिवदशकम् । पन्नरसत्ति लघुरात्रिन्दिवपञ्चदशकं गुरुरात्रिन्दिवपञ्चदशकम्। वीसत्ति लघुरात्रिन्दिवविंशतिकं गुरुरात्रिन्दिवविंशतिकम् । पण्णवीसत्ति लघुरात्रिन्दिवपञ्चविंशतिकं गुरुरात्रिन्दिवपञ्च-विंशतिकम्
Acharya Shri Kailassagarsuri Gyanmandir
॥१६३ ॥
मासो लहुओत्ति गुरुओत्ति लघुमासो गुरुमासः । चत्वारो लघुमासाश्चत्वारो गुरुमासाः, षण्मासा लघवः, षण्मासा गुरवः, तथा छेदः कतिपयपर्यायस्य । मूलं सर्व-पर्यायोच्छेदेन तारोपणम् । तह दुगं चत्ति अनवस्थाप्यं पाराञ्चितं च । इह पाराञ्चित प्रायश्चित्तवर्त्ती प्रायो जिनकल्पिकप्रतिरूपको वर्त्तते । उक्तं च- 'पारंचिओ एगागी इच्चादि जिणकप्पियपडिरूवगो' इति । अनवस्थाप्यप्रायश्चित्तवर्त्त्यप्येवंगुणः । उक्तं च
संघयण विरिय आगम- सुत्तविहीए उ जो समुज्जुत्तो । निग्गहजुत्तो तवस्सी, पवयणसारे गहियअत्थो ॥ १ ॥
For Private And Personal Use Only
गाथा
१६३-१६७ व्यवहारस्य नामादिभेदाः
९४ (B)