________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् पीठिका
८० (B)
चैत्यानामन्यवसतिगत-सुसाधूनां चावन्दने प्रत्येकं मासलघु ॥ १३३ ॥ सम्प्रति लाघवार्थमत्रैव छेदाहँ प्रायश्चित्तमाह
एएसु ति ठाणेसुं, भिक्खू जो वट्टए पमाएणं । सो मासियं तु लग्गइ, उग्घायं वा अणुग्घायं ॥ १३४ ॥ एतेषु अनन्तरोदितेषु स्थानेषु तित्ति त्रिः त्रीन् वारान् यो भिक्षुः प्रमादेन वर्त्तते, प्रमादेनैषां स्थानानामन्यतरत् त्रीन्वारान् अतिचरति स मासिकं सामान्यतो मासनिष्पन्नं छेदम् उद्घातं लघु, अनुद्घातं गुरुकं लगति प्राप्नोति, यत्र यति मासा लघवो गुरवो वा तपः प्रायश्चित्तं तत्र तति मासा लघवो गुरवो वा छेद इति यावत् ॥ १३४ ॥ सम्प्रति शेषाणि यानि चातुर्मासिकानि षाण्मासिकानि वा प्रायश्चित्तानि, ये चाऽभणिता: छेदाः, यानि च मूला-ऽनवस्थित-पाराञ्चितानि तदेतत् सर्वमेकगाथया विवक्षुराह
छक्काय चउसु लहुगा, परित्त लहुगा य गुरुग साहारे ।
संघट्टण परितावण, लहुगुरुगऽतिवायणे मूलं ॥ १३५ ॥ १. तिसु ठा• C प्रतौ ॥ २. वट्टती-भाष्ये लाडनू संस्करणे च ॥
गाथा १३२-१३५ स्वाध्यायकायोत्सर्गतपांसि अकरणे
प्राश्चित्तम्
८० (B)
For Private And Personal Use Only