________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम्
पीठिका ६६ (B)
तत्र अतिक्रमे व्यतिक्रमे अतिचारे वा यदि भवत्याशङ्का, यथा मया अतिक्रमः कृतो न वा? व्यतिक्रमो कृतो न वा? अतिचारः कृतो न वा? इति, तत्रापि तदुभयं प्रायश्चित्तम्, इह सहसाकारा-ऽऽशङ्के 'संकिए सहसागारे' [गा.९९] पदद्वयेनापि गते, केवलं महाव्रतानामतिक्रमादिष्वप्याशङ्कायां सहसाकारे चैतदेव प्रायश्चित्तं नान्यत् परिकल्पनीयमिति भाष्यकृता सहसाकाराऽऽशके अपि योजिते, 'छण्हं ठाणाण बज्झतो' (गा. ९९) इति व्याख्यानयन्नाह-नवहेत्यादि, यस्याचार्यस्य मतेन अनवस्थित-पाराञ्चितयोरैक्यविवक्षणात् नवधा नवप्रकारा विशोधिः प्रायश्चित्तं, तस्य आद्यप्रायश्चित्तद्वयस्योपरि यद् वर्त्तते, प्रायश्चित्तं तत् षण्णामुपरितनानां बाह्यमेव, तुशब्दस्यैवकारार्थत्वात्, ततः 'छण्हं ठाणाण बज्झतो' इति तदुभयं प्रायश्चित्तं प्रतिपत्तव्यमिति ॥ १०६-१०७ ॥ उक्तं तदुभयाहँ प्रायश्चित्तम। इदानीं विवेकाईमाह
कडजोगिणा उ गहियं, सेज्जा-संथार-भत्त-पाणं वा । अप्फासु णेसणिजं, नाउ विवेगो उ पच्छित्तं ॥ १०८ ॥
गाथा १०६-११० तदुभयाहप्रायश्चित्तम्
६६ (B)
१. य-मो० ॥ २. अप्फासु एसणि चतुसृष्वपि टीका प्रतिषु । अप्फासु अणेस जेभाखंभा॥
For Private And Personal Use Only