________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् पीठिका ६६ (A)
संहसाकार अइक्कम-वइक्कमे चेव तह य अइयारे । होइ चसद्दग्गहणा, पच्छित्तं तदुभयं तिसु वि ॥ १०६ ॥ अतियारुवयोगे वा, एगयरे तत्थ होइ आसंका । नवहा जस्स विसोही तस्सुवरि छह बज्झं तु ॥ १०७ ॥
सहसाकारतः सहसाकरणतः अतिक्रमे व्यतिक्रमे अतिचारे च प्राग्व्यावर्णितस्वरूपे, महाव्रतविषये इति सामर्थ्याद् गम्यते, 'महव्वयाइयारे य' [गा. ९९] इतिपदस्य व्याख्यायमानत्वात्, एतेषु त्रिष्वपि दोषेषु तदुभयम् उक्तस्वरूपं प्रायश्चित्तमिति योगः। अथ मूलगाथायां 'महाव्रतातीचारे च' इत्येवोक्तं ततः कथमत्र विवृतम् 'अतिक्रमे व्यतिक्रमे च' इति? अत आह-चशब्दग्रहणात्, किमुक्तं भवति ? चशब्दग्रहणतः मूलगाथायामप्यतिक्रम-व्यतिक्रमयोरपि समुच्चयः कृत इत्यदोषः। अथवा अतिचारस्य पर्यन्तग्रहणादतिक्रमव्यतिक्रमयोरपि उपयोगे स्फुटबुद्ध्या करणे तदुभयं प्रायश्चित्तमिति योगः । वाशब्दो भिन्नक्रमत्वाद् एगयरे इत्यत्र योजनीयः। ततोऽयमर्थ:- एकतरस्मिन् वा १. सहसकार-तिसृष्वपि भाष्यप्रतिषु ॥ २. भवइ-तिसृष्वपि भाष्यप्रतिषु ॥ ३. जत्थ - जेभा० ॥
गाथा १०६-११० तदुभयाईप्रायश्चित्तम्
६६ (A)
For Private And Personal Use Only