________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
पीठिका ६५ (A)
लक्षणं प्रायश्चित्तं भावतः प्रतिपद्यते। यदि हि निश्चितं भवति यथा- 'अमुकेषु शब्देषु रागं | द्वेषं वा गतः' इति तत्र तपोहँ प्रायश्चित्तम्, अथैवं निश्चयः 'न गतो राग द्वेषं वा' तत्र स शुद्ध एव, न प्रायश्चित्तविषयः। ततो वितर्के यथोक्तलक्षणे तदुभयमेव प्रायश्चित्तमिति॥ १०३॥
एमेव सेसए वी, विसए आसेविऊण जे पच्छा । काऊण एगपक्खे, न तरइ तहियं तदुभयं तु ॥ १०४ ॥
एवमेव उक्तेनैव प्रकारेण यान् [शेषकान्] रूपादीन् विषयान् आसेव्य उपभुज्य, उपलक्षणमेतत् प्राणातिपातादीनप्यासेव्य पश्चाद् एकतरस्मिन् पक्षे अपराधलक्षणे निर्दोषतालक्षणे वा कर्तुं न शक्नोति, यथा रूपादिषु विषयेषु राग द्वेषं वा गतः, प्राणातिपातादयो वा कृता इति, यदि वा न गतो रागद्वेषौ, नापि कृताः प्राणातिपातादय इति, तत्र तदुभयं तु तदुभयमेव, तुशब्दस्यैवकारार्थत्वाद् यथोक्तलक्षणं प्रायश्चित्तं, शङ्कास्पदत्वात् ॥ १०४॥
गाथा १००-१०५ तदुभयाहप्रायश्चित्तम्
६५ (A)
तदेवं शङ्किते इति व्याख्यातम्। सम्प्रति 'सहसाकारे' [गा.९९] इत्यादि व्याचिख्यासुराह
For Private And Personal Use Only