________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् पीठिका ५४ (A)
अमियं अदेसकाले, भावियमिव भासियं निरुवयारं । आयत्तो वि न गिण्हइ, किमंग पुण जो पमाणत्थो? ॥ ७५ ॥
अमितं प्रभूताक्षरं, तथा अदेश-काले भावितमिवेति देश-कालाभ्यामभावितमिव, न देशोचितं नापि कालोचितमिति भावः। अत एव निरुपकारम्, देश-कालाऽनुचिततया ततो लेशतोऽपि परस्योपकारायोगात्। एवंरूपं भाषितमायत्तोपि स्ववशगोऽपि न गृह्णाति नाऽऽदेयबुद्ध्या शृणोति, किमंग पुनः प्रमाणस्थः मान्य इति ॥ ७५ ॥
पुव्वं बुद्धीए पासित्ता तत्तो वक्कमुदाहरे। अंचक्खुओ व नेयारं, बुद्धिं अन्नेसए गिरा ॥ ७६ ॥
प्रागुक्तप्रकारेण पूर्वं बुद्ध्या प्रेक्ष्य पर्यालोच्य पश्चाद् वाक्यम् उदाहरेत उच्चरेत, अन्यथा | यथाकथञ्चन प्रवृत्त्या सम्यगुपादेयत्वायोगात् । तथा चाह-अंचक्षुष्क इव अन्धक इव | नेतारमाकर्षयितारं बुद्धिमन्वेषते गी: सदसदर्थप्रतिपादने । इत्थं च वक्ता अनुविचिन्त्यभाषी ४ १. अचक्खू इव ने खं० पु० ॥ २. बुद्धी अन्ने उ ते गिरा - जेभा खंभा० ॥ ३. उदाहरेत् उच्चारयेत् - वा. मो० पु० मु० ॥ ४. 'अचक्खु इव' अन्ध इव - खं० ॥
गाथा ७५-८० वाचिकमानसिकविनयादि
५४ (A)
For Private And Personal Use Only