________________
Shri Mahavir Jain Aradhana Kendra
|
श्री
व्यवहार
सूत्रम्
पीठिका
३६ (A)
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनया मर्यादया 'लोकृ-दर्शने' चुरादित्वात् णिच्, लोकनं लोचना- प्रकटीकरणं, ** आलोचना - गुरोः पुरतो वचसा प्रकटीकरणमिति भावः । यत् प्रायश्चित्तमालोचनामात्रेण शुद्धयति तदालोचनार्हतया 'कारणे कार्योपचारात् 'आलोचनम् १ । तथा 'प्रतिक्रमणं' दोषात् प्रतिनिवर्त्तनम्, अपुनःकरणतया मिथ्यादुष्कृतप्रदानमित्यर्थः, तदर्हं प्रायश्चित्तमपि प्रतिक्रमणं, किमुक्तं भवति ? यत् प्रायश्चित्तं मिथ्यादुष्कृतमात्रेणैव शुद्धिमासादयति, नं तु गुरुसमक्षमालोच्यते, यथा सहसाऽनुपयोगतः श्लेष्मादि - प्रक्षेपादुपजातं प्रायश्चित्तं तथाहिसहसाऽनुपयुक्तेन यदि श्लेष्मादि प्रक्षिप्तं भवति, न च हिंसादिकं दोषमापन्नः, तर्हि गुरुसमक्षमालोचनामन्तरेणापि मिथ्यादुष्कृतप्रदानमात्रेण स शुध्यति, तत् प्रतिक्रमणार्हत्वात् प्रतिक्रमणम् २। यस्मिन् पुनः प्रतिसेविते प्रायश्चित्ते यदि गुरुसमक्षमालोचयति, आलोच्य च गुरुसन्दिष्टः प्रतिक्रामति पश्चाच्च मिथ्यादुष्कृतमिति ब्रूते तदा शुद्ध्यति, तद् आलोचनाप्रतिक्रमणलक्षणोभयार्हत्वात् मिश्रम् ३ | तथा 'विवेकः' परित्यागः, यत् प्रायश्चित्तं विवेक
१. न च गु० वा. मो. पु. मु. ॥
For Private And Personal Use Only
गाथा
५४-५५ आलोचनास्वरूपम्
३६ (A)