________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पप्रतिषेवणा, कल्पिका इति भावः। या पुनरकुशलपरिणामतः प्रतिषेवणा सा दर्पः, दर्पप्रतिषेवणा दपिका इत्यर्थः ॥ ३९॥
श्री |
आह-किमेषां त्रयाणामपि परस्परमेकत्वं नानात्वं वा? उच्यते-उभयमपि। कथमित्यत
व्यवहार
सूत्रम् पीठिका २९ (A)
आह
नाणी ण विणा नाणं, नेयं पुण तेसऽणण्णमण्णं च । इय दोण्हमणाणत्तं, भइयं पुण सेवियव्वेण ॥ ४० ॥
यथा ज्ञानं विना अन्तरेण ज्ञानी न भवति, ज्ञानपरिणामपरिणततयैव ज्ञानित्वव्यपदेशभावादिति तयोःज्ञानज्ञानिनोरेकत्वम्। इय दोण्हमणाणत्तंति, इति एवं ज्ञान-ज्ञानिगतेन प्रकारेण द्वयोः प्रतिषेवक-प्रतिषेवणयोः अनानात्वम् एकत्वं, प्रतिषेवनामन्तरेण प्रतिषेवकस्याप्यभावात्, प्रतिषेवणापरिणामपरिणतावेव प्रतिषेवकत्वव्यपदेशप्रवृत्तेः । णेयं पुणं तेसऽणण्णमन्नं च इति, पुनः शब्दो विशेषद्योतने, स चामुं विशेषं द्योतयति- न ज्ञान-ज्ञानिनोः परस्परमिव ज्ञेयेनापि सह एकत्वं किन्तु ज्ञेयं । तयोर्ज्ञानज्ञानिनोरनन्यद् अन्यच्च। किमुक्तं भवति?- ज्ञानिनो ज्ञानाच्च ज्ञेयं किञ्चिदन्यत्
गाथा ३७- ४० प्रतिसेवनादिस्वरूपम्
२९ (A)
For Private And Personal Use Only