________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
..
श्री व्यवहार
सूत्रम् पीठिका २८ (B)
Acharya Shri Kailassagarsuri Gyanmandir आधाकर्माद्योदनादि, वा विकल्पे, अरूपि वा-आकाशादि । तदपि हि मषावादादिविषयतया भवति कदाचित् प्रतिसेवनीयम् ॥ ३८ ॥ इह प्रतिसेवनामन्तरेण न | प्रतिसेवकस्य सिद्धिः नापि प्रतिसेवनीयस्य, ततः प्रतिसेवनीया विशेषतः प्ररूपणामाह
पडिसेवणा उ भावो, सो पुण कुसलो व्व होज्जऽ कुसलो वा । कुसलेण होइ कप्पो, अकुसलपरिणामतो दप्पो ॥ ३९ ॥
प्रतिषेवणा द्विविधा- द्रव्यरूपा भावरूपा च, प्रतिषेवणक्रियायाः कर्तृकर्मगतत्वात् ।। तत्र या तस्य तस्य वस्तुनः प्रतिषेव्यमानता सा द्रव्यरूपा प्रतिषेवणा, यस्तु जीवस्य तथा तथा प्रतिषेवकत्वपरिणामः सा भावरूपा प्रतिषेवणा, सैवं चेह ग्राह्या, जीवपरिणामानुरूप्यतः प्रायश्चित्तविधिप्रवृत्तेः। तथा चाह- पडिसेवणा उ भावो प्रतिषेवणा नाम, तुः
३७-४० एवकारार्थो भिन्नक्रमश्च, भाव एव जीवस्याऽध्यवसाय एव, नान्या। स च भावो द्विधा- प्रतिसेवनाकुशलोऽकुशलश्च। तत्र कुशलो ज्ञानादिरूपः,अकुशलोऽविरत्यादिरूपः । तत्र या कुशलेन
दिस्वरूपम् परिणामेन बाह्यवस्तुप्रतिषेवणा सा कल्पः, 'पदैकदेशे पदसमुदायोपचारात्' २८ (B) १. वेह० वा. पु० ॥
गाथा
For Private And Personal Use Only