________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
ऽयोगात्, तद् यदि लोभादितया कथमपि व्यवहारं विलोपामि ततो मयैव तीर्थकरानन्तरः सन् सङ्घोऽन्तरितः कृतो भवेत्, तत एवं जानन् व्यवहारविलोपनेन कथमहं तीर्थकरानन्तरं सङ्गम् अन्तरे स्थापयामि अन्तरयामि? इति चिन्तयित्वा सोऽवादीत् 'तवैवेदमाभवति न ममेति', तस्मात् द्विविधो व्यवहारो गीतार्थेन सह कर्त्तव्यो नाऽगीतार्थेन, गीतार्थश्च प्रियधर्मत्वादिगुणोपेत इति प्रियधर्मादयो भावव्यवहर्त्तव्याः ।
सूत्रम्
पीठिका २५ (A)
नन् ये प्रियधर्मादयस्ते प्रियधर्मत्वादिगणैरेवाकल्प्यं न किमपि प्रतिसेविष्यन्ते इति कथं व्यवहर्त्तव्या निर्दिश्यन्ते, व्यवहारहेत्वकल्प्यप्रतिसेवनाऽसम्भवात्। नैष दोषः, प्रमादवशतस्तेषामपि कदाचिदकल्प्यप्रतिसेवनोपपत्तेः। अन्यच्च प्रमादाऽभावेऽपि कदाचिदशिवायुत्पत्तौ गुरु-लाघवं पर्यालोच्य दीर्घसंयमस्फातिनिमित्तम-कल्प्यमपि प्रतिसेवन्ते, ततो भवति तेषामपि व्यवहारयोग्यतेति व्यवहर्तव्या निर्दिष्टाः ॥ २९-३०॥ अथ ये प्रियधर्मादिगुणोपेता अपि प्रमादिनस्ते कथं व्यवहियन्ते? प्रमादितया तेषां व्यवहारयोग्यताया अभावात् तत आह१. विलोप्यामि - मो. मु० । लोप्यामि - वा. पु० ॥
गाथा २९-३२ व्यवहर्त्तव्यस्वरूपम्
.
२५ (A)
For Private And Personal Use Only