________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चउछट्टटमकरणे अटुमिपक्ख चउमास वरिसेय; लहुगुरुलहुगागुरुगा, अवंदणे चेइ साहूणं ।भा० १३४॥ | ___अत्र यथासंख्येन पदयोजना सा चैवं अष्टम्यां चतुर्थस्याकरणे मासलघु, पाक्षिके चतुर्थस्याकरणे मासगुरु चतुर्मासे | पष्टस्याकरणे चत्वारो लघुमासा सांवत्सरिके अष्टमस्याकरणे चत्वारो गुरुमासाः, तथा एतेषु चाष्टम्यादिषु दिवसेषु चैत्यानामन्यवसतिगतसुसाधूनां चावंदने प्रत्येकं मासलघु, संप्रति लाघवार्थमव छेदाह प्रायश्चित्तमाह ॥ छ ।। एएस तिठाणेसुं, भिक्खु जो वट्टए पमाएणं, सो मासियं ति लग्गइ उग्घायं वा अणुग्घायं।भा० १३५॥
एतेष्वनंतरोदितेषु स्थानेषु तित्ति त्रिः त्रीन् वारान् यो भिक्षुः प्रमादेन वर्त्तते, प्रमादेनैषां स्थानानामन्यतरत् त्रीन्वारान् अति चरति स मासिकं सामान्यतो मासनिष्पन्नं, छेदमुघातं लघु, अनुदघातं गुरुकं लगति प्राप्नोति, यत्र यति मासा लघवो गुरवो तपःप्रायश्चित्तं, तत्र तति मासा लघवो गुरवो वा छेद इति यावत् , संप्रति शेषाणि यानि चातुर्मासिकानि षण्मासिकानि वा प्रायश्चित्तानि ये वा भणिता छेदा यानि च मूलानवस्थितपारांचितानि तदेतत् सर्वमेकगाथया विवक्षुराह ।। छ । छक्कायचउसु लहुगा, परित्तलहुगा य गुरुग साहारे, संघट्टण परितावण लहुगुरुगतिवायणेमूलं भा.१३६॥
पदकायाः पृथिव्यप्तेजोवायुवनस्पतित्रसकायरूपाः तेषां मध्ये चतुर्पु पृथिव्यप्तेजोवायुरूपेषु संघटनादिभिलघुकाः प्रायश्चित्तं परीत्ते प्रत्येकवनस्पतिकायेपि च लघुकाः साधारे अनंतवनस्पतिकायिके संघटनादिषु गुरुकाः तथा द्वींद्रियादीनां संघट्टने परितापने च यथायोगं लघुका गुरुकाश्च प्रायश्चित्तमतिपातने विनाशे मूलं इयमत्र भावना पृथिवीकार्य संघट्टयति |
For Private and Personal Use Only