________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उपलक्षणमेतत् तेन शुद्ध पृथिव्यूषगेरुकवणिंका सेटिका सौराष्ट्रिक्यादयोपि सचित्तपृथिवीकायभेदाः प्रतिपत्तव्याः । तथा मिश्रकः सचित्ताचित्तरूपः कर्दमादिर्हरितालादिर्वा पृथिवीकायः, एतेष्वपि, किमुक्तं भवति ? एतैरपि प्रत्येकं म्रक्षिते करे मात्रके वा भिक्षामाददानस्य लघुर्मासः, एतत्पुनः संप्रदायादवसातव्यम्, सचित्तमिश्रपृथिवीरजोगुंठिते सचित्तमिश्रोदकस्निग्धे वा करे मात्रके वा भिक्षामुपाददानस्य पंचरात्रिं दिवानि उक्तं च ससणिद्धे ससरक्खे पणगमिति तथा वनस्पतिकायो द्विविधः परीत्तोऽनंतकायश्च एकैकस्य त्रयो भेदाः पिष्टं कुकुस्सा उत्कुटितं च पिष्टं कुक्कुसाश्व प्रतीताः उत्कुटितचिंचनकादिः तत्र त्रिविधैरपि सचित्तमिश्रपरीत्तवनस्पतिकायैः संस्पृष्टे करे मात्रके वा भिक्षां गृह्णतो लघुर्मासः, अनंत सचित्त मिश्रवनस्पतिकायैत्रिविधैरपि संस्पृष्टे गुरुमासः पुरकर्मणि पश्चात्कर्माणि च केचिदाहुल घुमासोऽपरे चत्वारो लघवः, उक्तं च कल्पचूपों पुरकम्मपुच्छकम्मेहिं चउलहु इति । छ।
सज्झायस्स अकरणे, काउस्सग्गेतहा अपडिलेहा; पोसहियतवेयतहा अवंदणा चेइयाणं च ॥भा०१३०॥ ___स्वाध्यायस्य वाचनादेरकरणे सामान्यतो मासनिष्पन्न प्रायश्चित्तमिति योगः। अत्रेयं भावना सूत्रपौरुषी यदि न करोति, ततो मासलघु प्रायश्चित्तं, अर्थपौरुषी न करोति मासलघु उसूत्रपौरुष्यावकुर्वतो द्वौ लघुमासौ, तिसृणां सूत्रपौरुषीणामकरणे त्रयो लघुमासाः, चतसृणामपि सूत्रपौरुषीणामकरणे चतुर्मासलघु काउस्सग्गे इति अकरणे इत्यत्राप्पनुवर्तते आवश्यकप्रतिबद्धकायोत्सर्गस्य सूत्रे सप्तमी षष्ठीसप्तम्योरर्थ प्रत्यभेदात् अकरणे सामान्यतो मासनिष्पन्न प्रायश्चित्तमिति सर्वत्रापि योजनीयं, भावना त्वत्रापीयं आवश्यके एकं कायोत्सर्ग न करोति मासलघु, द्वौ न करोति द्विमासलघु, त्रीन कायोत्सर्गान करोति
For Private and Personal Use Only