________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहारसूत्रस्य
॥ ४० ॥
*******
>***<*@**•
www.kobatirth.org
बहिर्व्युत्सृष्टेऽपांतराले प्राये विश्रामयासंभवात् गमनागमनं समुदितं प्रतिक्रमणीयं भवति, यदापि हस्तशतस्याभ्यंतरे उच्चारं प्रश्रवणं तन्मात्रकं वा परिष्ठापयति तदापि विचारे इति वचनात् ऐर्यापथिकीप्रतिक्रमण पुरस्सर : पंचविंशत्युच्छ्वासप्रमाणः कायोत्सर्गः प्रायश्चित्तं संप्रति सुत्ते इति पदं व्यातिख्यासुराह ॥
उद्देससमुद्दे सत्तावीसं तहा यणुन्नाए, अठेवयऊसासा पठवा पडिकमणमादी ॥ भा० ११५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
उद्देश वाचनासूत्रप्रदानमित्यर्थः समुद्देशो व्याख्याअर्थप्रदानमिति भावः अनुज्ञासूत्रार्थयोरन्यप्रदानं प्रदानं प्रत्यनुमननं एतेषु तथेतिशब्दोऽनुक्तसमुच्चयार्थस्तेन श्रुतस्कंधपरिवर्तने अंगपरिवर्त्तने च कृते तदुत्तरकालमविधिसमाचरणपरिहाराय प्रायश्चित्तं कायोत्सर्गः सप्तविंशत्युच्छ्वासप्रमाणं पर्यन्तैकपादहीनः समस्तचतुर्विंशतिस्तवस्तत्र चिंतनीय इति भावः, अड्डेवय इत्यादि । प्रस्थापनं स्वाध्यायस्य प्रतिक्रमणः कालस्य तयोः करणे कायोत्सर्गः प्रायश्चित्तमष्टावेवोच्छ्वासः श्रष्टच्छ्वासप्रमाणः श्रादिशब्दात् पानकमपि परिस्थाप्यर्या पथिकी प्रतिक्रमणोत्तरकालं कार्यो सर्वोष्टोच्छ्वासप्रमाणः करणीय इति द्रष्टव्यमेतच्चास्यैव व्यवहारस्य चूयां दृष्ट्वालिखितमिति । अत्रैवाक्षेपमभिधित्सुराह -
पुर्व पट्टणाखल उद्देसाईयपच्छत्तो होंति; पट्ठवरणुदेसादिसु अणाणुपुव्वी कया किंनु ॥ भा० ११६ ॥ ननु पूर्व प्रस्थापना खलु स्वाध्यायस्य क्रियते, पश्चादुद्देशादयो भवति, ततः प्रस्थापनोदेशादिषु व्यवस्थितेषु किंनु इत्याचेपे किमर्थं ननु अनानुपूर्वी अनंतरगाथायां कृता किमिति पश्चात् गाथायां पूर्व्वमुद्देशादय उक्तास्तदनंतरं प्रस्थापनमिति
For Private and Personal Use Only
*****************
पीठिका
॥। ४० ।।