SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandie भागे हृते षट् श्लोका एकपादाधिका लभ्यते ततश्चतुर्विशतिस्तवः चंदेसु निम्मलयरा इति पादपर्यंत कायोत्सर्गे चिंतनीय इति भावः ॥ एवमेव सेसएसवि होइ निसज्जाए अंतरे गमणं । बागमणं जं तत्तो निरंतरगयागयं होइभा-११४॥ ____ एवमेव भक्तपानयोरिव शेषेष्वपि स्थानेषु शयनासनादिषु यावत्नाद्यापि वेला भवति तावत् यावत प्रतीक्षणं तदेतदत्रांतरं तस्मिन् अंतरे निषद्यायामुपवेशने केवलं गमनं प्रतिक्रमणीयं भवति तथाहि शयनं नाम संस्तारकादि आसन पीठकादि तद्याचनार्थ क्वचनापि गतस्तत्र ग्लानचारित्वादिभिः कारणैः शरीरदुर्बलतया जातपरिश्रमो विश्रमितुकामः, संस्तारकादिप्रभुर्वा न विद्यते क्वचिदन्यत्र गतत्वात् ततस्तं प्रतीक्षितुकाम ऐर्यापथिक पापविशोधनाय गमनं प्रतीक्रमतीति आगमणं जं तत्चो इति एवं भक्तपानाद्यर्थ विश्रम्य कार्यसमाप्तौ ततः स्थानात् यदा भूयः स्वोपाश्रये प्रत्यावर्त्तते तदा केवलमागमनं प्रतिक्रमणीयं भवति यदि पुनरेतेष्वेव प्रयोजनेषु नोक्तप्रकारेणापांतराले विश्रमणं भवति तदा निरंतरे भवति उक्तलक्षणस्यांतरस्याभावे गतागतं गमनागमनं समुदितं प्रतिक्रमणीयं जायतेएवमर्हच्छ्रमणशय्यास्वपि गमनमागमनं गमनागमनं च प्रतिक्रमितव्यं भावनीयं, तद्यथा पाक्षिकादिषु जिनभवनादौ चैत्यवंदको गत्वा यदा स्नानादिदर्शननिमित्तमैर्यापथिकीं प्रतिक्रम्य विश्राम्यति तदा केवलं गमनमेव प्रतिक्रमणीयं, ततः स्वोपाश्रये प्रत्यायातावागमनं विश्रामणासंभवे गमनागमनमिति, तथा पाक्षिकादौ येऽन्यवसतिषु सुसाधवस्तेऽवश्यं वंदनीया इति विधिस्ततस्तत्र वंदको गतो यदा विश्राम्यति तदागमनं, ततः स्वोपाश्रये प्रत्यागमने आगमनं, विश्रामणाभावे गमनागमनं प्रतिक्रमणीयमिति उच्चारे प्रश्रवणे च हस्तशताद् For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy