________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दर्शनं प्रतिविनीतत्वादर्शनप्राधान्यविवक्षया दर्शनविनय उच्यते एतेन विनयविनयवतोरभेदमाह एकांतभेदे त्वविनयवत इव तत्फलाभावान्मोक्षाभाव एवं शेषपदेष्वपि भावना कार्या, तथा निःकांक्षितो देशप्सर्वकांक्षारहितः तत्र देशकांक्षा यदेकं * दिगंबरादिदर्शनं कांक्षति, सर्वकांक्षा यथा यः सर्वाण्येव दर्शनान्याकांक्षति, न पुनरालोचयति षट्जीवनिकायपीडामसत्प्ररूपणां
च, विचिकित्सा मतिविभ्रमः निर्गता विचिकित्सा यस्मादसौ निर्विचिकित्सः साधेव जिनदर्शनं किंतु प्रवृत्तस्य सतो ममास्मात्फलं भविष्यति न वा कृष्यादिक्रियाया उभयथाप्युपलब्धेरिति चिकित्सयारहितः नह्यविकलःउपायउपेयवस्तुपरिप्रापको भवतीति, संजातनिश्चयो निर्विचिकित्स उच्यतेः एतावता अंशेन निःशंकिता भिन्नः उदाहरणं चात्र विद्यासाधको यथावश्यके इति, यद्वा निर्विशुद्धजुगुप्सः साधु जुगुप्सारहितः उदाहरणं चात्र श्रावकदुहिता यथाऽवश्यके एव तथा बालतपस्वितपोविद्या तिशयदर्शनेने मूढा स्वभावान्न चलिता दृष्टिः सम्यग्दर्शनरूपा यस्याऽसावमूढदृष्टिः उक्तं च ।। णेगविहा इडीयो पूयं, परवादिणं च दट्टण जस्स: न मुज्झइ दिट्री, अमूढदिदि तयं विति ॥ १ ॥
अत्रोदाहरणं सुलसा श्राविका, यथा अंबडो रायगिहं गच्छंतो बहूणं भवियाणं थिरिकरणनिमिर्त सामिणा भणितो सुलसं पुच्छेजासि, अंबडो चिंतइ, पुण्णमंति सुलसा जं अरिहा पुच्छइ, ततो अंबडेण परिजाणनिमित्तं सा भत्तं मग्गिया तहवि न दिशं ततोतणबहणिरूवाणि विउब्धियाणि तइविनदिन्नं न य संमूढा, तह किर कुतित्थियरिद्वीओदठूण अमूढदिद्विणा भवियव्यं, एतावान् गुणिप्रधानो दर्शनविनयनिर्देशः, अधुना गुणप्रधानं उपबृंहणं च स्थिरीकरणं च तत्रोपबृंहणं नाम समानधार्मिकाणां क्षपण वैयावृत्यादिसद्गुणप्रशंसनेन तवृत्ति । करणं उक्तं च ॥
For Private and Personal Use Only