________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पीठिका
श्री व्यव-1 हारसूत्रस्य ॥२६॥
इति समाहारत्वादेकवचनं भेदो न कार्य इति वाक्यशेषः एतदुक्तं भवति, श्रुतप्रवृत्तेन तत्फलमभिप्सता व्यंजनभेदोऽर्थभेद उभयोर्भेदश्च न कार्य इति, तत्र व्यंजनभेदो यथा धर्मो मंगलमुत्कृष्टं इति वक्तव्येषु पुग्मं कल्लाणमुक्कोसमित्याह अर्थभेदो यथा अवंती केयावंती लोगंसिविप्परामुसंती इत्यत्र आचारसूत्रे यावंतः केचन लोके अस्मिन् पापंडिलोके विपरा मृशंतीत्येवंविधार्थाभिधाने अवंतीजनपदे केयारकुर्वलकूपे पतिता लोकाः परामशंतीत्याइ, उभयभेदो द्वयोरपि यथात्मोपमर्दैन धर्मो मंगलमुत्कृष्टोऽहिंसापर्वतमस्तके इत्यादिदोषश्चात्र व्यंजनभेदे अर्थभेदस्तभेदे क्रियाभेदः क्रियाभेदे च मोक्षाभावस्तदभावे च निरर्थका दीक्षेति एवं कालादिभेदप्रकारेणाष्टविधोष्टप्रकारो ज्ञानविनयः, दर्शनविनयोप्यष्टप्रकारस्तामेवाष्टप्रकारतामुपदर्शयति । निस्संकियं निकंखिय निवितिगिच्छा अभूढदिट्टीय। उववृहथिरीकरणे वच्छल्लपभावणे अट्ठ॥भा०॥
शंकन शंकित शंका इत्यर्थ निर्गतं शंकितं यस्मादसौ निःशंकितः, देशसर्वशंकारहित इत्यर्थः, तत्र देशशंका समाने जीवित्वे किमेको भन्यो, अपरस्त्वभव्य इति, सर्वशंका प्राकृतनिबद्धत्वात् सकलमेवेदं प्रवचनं परिकल्पितं भविष्यति इत्येवं नपुनरालो चयति यथा भावा हेतुग्राह्या अहेतुग्राह्याश्च, तत्र हेतुग्राह्या जीवास्तित्वादयः, अहेतुग्राह्या अस्मदाद्यपेक्षया भव्यत्वादयः प्रकृष्टज्ञानगोचरत्वात्तद्हेतूनामिति प्राकृतनिबंधोपि बालादिसाधारणमुक्तं च ॥ बालस्त्रीमूर्खमूढानां, नृणां चारित्रकांक्षिणां; अनुग्रहाय तत्वज्ञैः, सिद्धांतः प्राकृतः स्मृतः॥१॥ इतश्च न परिकल्पितो दृष्टेष्टाविरुद्धत्वात् निःशंकितो जीव एवाईच्छासनप्रतिपन्नो,
For Private and Personal Use Only