________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यव
हारसूत्रस्य
। १५ ।।
*******>**<>****++*****<•7.03403++03
www.kobatirth.org
प्रतिपादनार्थमाह || छ |
पाव दिइ जम्हा, पायच्छित्तं तु भन्नए तेणं, पाएण वा विचित्तं, विसोहए ते ण पच्छित्तं ॥ भा ॥३५॥
Acharya Shri Kailassagarsuri Gyanmandir
यस्मात् शोधिरुपोव्यवहारोऽपराधसंचितं पापं छिनत्ति विनाशयति तेन कारणेन सप्रायश्चित्तं भण्यते, पृषोदरादित्वादिष्टरूपसिद्धिः, अथवा प्रायोऽपराधमलिनं चित्तं जीवमत्र चित्तशब्देन चित्तचित्तवतोरभेदोपचारात् जीवोऽभिधीयते, तथा चाह चूर्णिकृत् चित्त इति जीवस्याख्येति विशोधयत्यपराधमलरहितं करोति तेन कारणेन प्रायश्चित्तं प्रायः प्रायेण चित्तं यथावस्थितं भवत्यस्मादिति प्रायश्चित्तमितिव्युप्तत्तेः, गतं निरुक्तद्वारमिदानीं भेदद्वार प्रतिपादनार्थमाह । छ | डिसेणा य संजोयणाय रोवणा य बोधव्वा, पलिउंचणा चउत्थी पायच्छित्तं चउद्धा उ ॥भा ३६ ॥
प्रतिषिद्धस्य सेवना प्रतिसेवना, अकल्प्यसमाचरणमिति भावः च समुच्चये, संयोजनं संयोजना शय्यातरराजपिंडादिभेदभिन्नाऽपराधजनितप्रायश्चित्तानां संकलनाकरणं, आरोप्यते इति आरोपणा प्रायश्चितानामुपर्युपर्यारोपणं, यावत् मासाः परतो वर्द्धमानस्वामितीर्थे आरोपणायाः प्रतिषेधात् परिकुंचनं परिकुंचना गुरुदोषस्य मायया लघुदोषस्य कथनं यथा सचितं प्रतिषेव्य मया अचित्तं प्रतिषेवितमित्याहेति एषा प्रतिसेवनाद् आरभ्य गण्यमाना चतुर्थी, एवमेतत् प्रायश्चित्तं चतुर्द्धा भवति, तत्र यथोद्देशं निर्देश इति न्यायात् प्रथमतः प्रतिषेवणोच्यते, प्रतिषेवणा प्रतिषेवकप्रतिषेव्यव्यतिरेकेण नोपपद्यते, सकर्मक क्रियायाः कर्त्तृकर्म्मव्यतिरेकेणासंभवात् ततस्त्रयाणामपि प्ररूपणां चिकीर्षुरिदमाह |छ ।
For Private and Personal Use Only
K++++++*<--+++***+0K **- *YOK+->**<
पीठिका
11 24 17