________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
माधुर्द्विविधो गीतार्थोगीतार्थश्च, तत्र यो गीतार्थः स स्वयमेव जानीते, जानानस्य च नोपदेशः, यस्त्वगीतार्थ स युक्तायुक्त परिज्ञानविकलतयाऽनाभाव्यमपि गृह्णाति ततस्तस्मै अगीताय अगीतार्थाय उपदेशो दीयते, यथा न युक्तं तवानाभाव्यं * ग्रहीतुं यो धनाभाव्यं गृह्णाति तस्य तन्निमित्तं प्रायश्चित्तमाभवति, एवमुपदिश्य तस्यानाभाव्यं ग्रहणप्रवृत्तिनिमित्तं दानप्रायश्चित्तं दीयते, तथा चाह विडओ उ सोहियवहारो शोधिः प्रायश्चित्तं अनाभाव्यं गृह्णाति, प्रथमत उपदेशो दीयते, द्वितीयशोधिदानव्यवहारः तदेदनाभाव्यं गृहंतं प्रत्युक्तं; संप्रति गृहीतानाभाव्यं प्रत्याह गहिए वीत्यादि अपिशब्दः समुच्चये न केवलमनाभाव्ये गृह्यमाणे, किंतु गृहीतेऽप्यनाभाव्ये दीयते, प्रथमत उपदेश इति गम्यं, तदनंतरं मूत्रमुच्चार्य प्रायश्चित्तं यथावस्थितं कथयित्वा एतनवाभवति प्रायश्चित्तमिति प्रथम, ततो दानप्रायश्चित्तं दीयते इति द्वितीयं.
अथ प्रायश्चित्तमिति कः शब्दार्थः कतिविधं प्रायश्चिनमिति प्रश्नमुपजीव्य प्रायश्चित्तनिरुक्तादि द्वारकलापप्रतिपादनाय द्वारगाथामाह ॥ छ । पायच्छित्तनिरुतं, भेया जत्तो परूवणबहुलं; अज्ज्ञयणाण विसेसो, तदरिहपरिसा य सुत्तत्थो ॥३४॥
प्रथमतः प्रायश्चित्तशब्दार्थो वक्तव्यः, ततः प्रायश्चित्तस्य भेदाः प्रतिसेवनादयो वक्तव्याः, तदनंतरं यतो निमित्तात् प्ररूपणात् पृथक्त्वप्ररूपणाबाहुल्यं किमुक्तं भवति यतो निमित्तात् प्रतिसेवनातः संयोजना प्रायश्चित्तमारोपणा प्रायश्चिनं परिकुंचना प्रायश्चित्तं च पृथगुपपद्यते तद् वक्तव्यं, ततोऽनयोः कल्पाध्ययनव्यवहाराध्ययनयोर्विशेषो नानात्वं वक्तव्यं, तदनंतरं तदही प्रायश्चित्ताहरे पर्षद् वाच्या ततःसूत्रार्थः एष द्वारगाथा संक्षेपार्थः, व्यासार्थ तु प्रतिद्वारं वक्ष्यति, तत्र निरुक्तद्वार
For Private and Personal Use Only