________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
पीठिका
श्री व्यवहारसूत्रस्य
शिवायुत्पत्तौ गुरुलाघवं पर्यालोच्य दीर्घसंयमस्फातिनिमित्तमकल्प्यमतिप्रतिसेवंते, ततो भवति तेषामपि व्यवहारयोग्यतेति ।। व्यवहत्तव्या निर्दिष्टाः, अथ ये पियधर्मादिगुणोपेता अपि प्रमादिनस्ते कथं व्यवड़ियंते, प्रमादितया तेषां व्यवहार योग्यताया अभावात् तत आह ॥ पियधन्मे दृढधम्भे, संविग्गे चेव जे उ पडिवकखा; ते विहु ववहरियव्वा किं पुण जे तेसिं पडिवकखा ॥३१॥
प्रियधर्मणि दृढधर्मे संविग्ने च ये प्रतिपक्षा अप्रियधर्मा अदृढधा असंविग्नाश्च तेऽप्यनवस्थावारणाय तदन्यनिषेधाय बहु निश्चितं व्यवहर्त्तव्या भगवद्भिक्ताः किं पुनर्ये तेषामप्रियघादीनां प्रतिपक्षाः प्रियधर्मदृढधर्मसंविनास्ते सुतरां व्यवहर्तव्या प्रियधर्मादितया तेषां भावतो व्यवहारप्रवृत्तेः, तदेवं पियधम्मे य बहसुए इत्येतद्व्याख्यातं; संप्रति द्वितीयमित्यवयवं व्याचिख्यासुराह विइयमुवएस अकाइयाण जे होति उ पडिवक्खा तेवि हववहरियव्वा. पायच्छित्ताभवंते य ॥भा३२॥
द्वितीय उपदेश आदेशो मकारोऽलाक्षणिकः, द्वितीयं मतांतरमित्यर्थः, अबक्रादीनां ये भवंति प्रतिपक्षाः बक्रः कुटिलो निष्कारणप्रतिसेवी, तथा सततप्रतिसेवनाशीलोऽप्रियधर्मा यावदबहुश्रुतस्तेऽपि केचिद् व्यवहारयोग्यतया अपरेऽनवस्थावारणाय तदन्यनिषेधायवा आभवति प्रायश्चित्ते व्यवहर्त्तव्याः, संप्रतिउवदेसपच्छित्तमित्येतत् व्याचिख्यासु राह.. उपदेसो उ अगीए दिजइ विडओउसोधिववहारो: गहिएविणाभव्वे, दिजइ बिइयं तु पच्छित्ताभा३३॥
॥ १४ ॥
For Private and Personal Use Only