________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हीणे इत्यादि यत्र यासु दशदिनादिकासु चतुर्दशदिनपर्यतासु पंचभिर्भागे हृते यल्लब्ध, तस्मिन् द्विरूपहीने कृते सति भवेदाकाशं शून्यं, तत्राप्येको मासो द्रष्टव्यः, दिवसा मपि द्वयानां स्थापनारोपणानां त एव ज्ञेया, ये उपात्ता नतु प्रागुक्तकरणवशतो माससंख्यात भानेतव्या इति भावः । अथ यत्रोत्कृष्टा स्थापनारोपणा वा तत्र स्थापनारोपणाभ्यामेव पक्षां मासाना परिपूर्णभवनात् उवणारोवणदिवसे माणाउ विसोहातु जं सेसमित्यादि करणं न प्रवर्तते, तदप्रवृत्तौ च कथं संचयमाससंकलनं कर्तव्य तत आह ॥ उकोसा रुवणाणं मासा जे होंति करणनिविट्ठा॥ते ठवणामासजुया संचयमासाउ सव्वासिं ॥१९८॥
सर्वासामुत्कृष्टानामारोपणानां ये मासा भवंति, करणनिर्दिष्टाः दिवसा पंचहि भइया इत्यादिना आरोपणाकरणन निर्दिष्टास्ते स्थापनामासयुताः स्थापनायां ये करणवशतो लन्धा मासाः संयुक्ताः संचयमासा द्रष्टव्याः; यथा विंशिकायर्या स्थापनायां षष्टदिनशतायामारोपणायां द्वात्रिंशन्मासाः तथाहि स्थापनायां द्वौ मासौ लन्धौ, तौ च प्रागेव भावितो, आरोपणाया: पंचभिर्भागो हियते, लब्धा द्वात्रिंशत् सा द्विरूपहीना क्रियते जाता त्रिंशत् स्थापनामासौ तत्र प्रक्षिप्तावागतं द्वात्रिंशत् प्रतिसेविता मासाः, अथात्र कुतो मासात् किं गृहीतं ? उच्यते, द्वौ द्वात्रिंशतः संचयमासेभ्यः स्थापनामासौ शोध्येते, स्थिताः पश्चात् त्रिंशन्मासाः तत इयमारोपणा त्रिंशता मासैनिष्पना त्रिंशत्तमा चेति त्रिंशद्भागाः क्रियते, आगत एकैकसिन् भागे एकैको मासः, तत्र प्रथमो भागः पंचदशभिर्गुण्यते, जाता पंचदश, शेषा एकोनत्रिंशत् पंचभिर्गुण्यते, जात पंचचत्वारिंशत्शतं १४५ ।। उभयमीलने पष्टं शतं १६० । तत्र स्थापनादिवसा विंशतिः प्रचिप्ता जातमशीतं शतमागतमत्र द्वाभ्यां
For Private and Personal Use Only