________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ति कृत्वा ते एकविंशतिः संचयमासा स्विभागाः क्रियते, जातात्रयः सप्तकाः पुंजाः ततः प्रथम सप्ततिपंचगुणमिति वचनात् पंचदशभिर्गुण्यंते, जातं पंचोत्तरशतं तत्र पक्षो झोष इति पंचदश शोध्यंते, जाता नवतिः ६०॥ शेषौ च द्वौ भागौ सप्तको शेपं च पंचगुणमिति वचनात् , प्रत्येकं पंचभिर्गुण्यंते, जाता उभयत्र प्रत्येक पंचत्रिंशत् उभयमीलने जाताः सप्ततिः सा पूर्वराशौ प्रक्षिप्ता जातं षष्टयधिकं शतं १६० ।। अत्र विंशतिः स्थापनादिनाः प्रक्षिप्ता जातमशीतं शतमागतमत्र द्वाभ्यां स्थापपनीकृताभ्यां मासाभ्यां दश दश वासरा गृहीताः सप्तभ्यो मासेभ्यः पंचदश चतुर्दशभ्यो मासेभ्यः पंच पंच पंचदश वासराश्च झोषीकृता इति एवं सर्वत्र भावनीयं, तदेवं या स्थापना आरोपणा च यतिभिर्मासैः प्रतिसेवितै निष्पना यस्यां च स्थापनायामारोपणायां च संचयमासानां मध्ये यतो मासात् यत् गृहीतं तदेतत् सर्व प्रतिपादित मधुना यत्स्थापनाया आरोपणायाश्च मासानयनाय करणमुक्तं, दिवसा पंचहिं भइया इत्यादि तत् प्रथमस्थाने एवं सर्वात्मना व्यापि न द्वितीयादिषु स्थाने तेषु हि क्वचित्तदप्यस्ति, कचिदन्यथापि ततस्तत्रोमयं विवक्षुः प्रथमतस्तावदेव करणमाह ॥ दिवसा पंचहिं भइया, दुरूपहीणा य ते भवे मासा॥मासा दुरूवसहिया पंचगुणा ते भवे दिवसा ।१९४
अस्या व्याख्या पूर्ववत् । जत्थ य दुरूवहीणं न होज भागं च पंचहिन दिजा । तेहिं ठवणरूवणा मासो एगोउ ते चेव ॥१६॥
यत्र पुनः स्थापनासु आरोपणासु च पंचदिनादिकासु पंचभिर्भागे हृते यलब्धं तद्विरूपहीनं भवेत् , पंचदिनादिकासु
For Private and Personal Use Only