________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयो विभागः।
श्री व्यवहारसूत्रस्य पीठिकाऽनंतरः ।
। ७०।।
| सेवितमासेभ्यः स्थापनामासा एवं शोध्यंते, नारोपणामासा इति ततः तन्मतेन द्वौ स्थापनामासावेकश्वारोपणामास इति त्रयः संचयमासेभ्यः त्रयोदशभ्यः शोध्यंते, जाता दशेति । तत्र स्वमते अधिकृतारोपणा एकमासनिष्पन्नेति एकादश भागेन क्रियते, एकभागकृतं च तत्तथारूपमेव भवतीति जाताः समुदिता एव ते एकादश, ततः तिपंच गुणितमिति वचनात् पंचदशभिर्गुण्यंते, जातं पंचषष्टं शतं ॥ १६५ ॥ तत्र स्थापना दिवसा विंशति प्रचिता जातं पंचाशीतं शतं ततः पंच रात्रिदिवान्यत्र झोषीकृतानीति तान्यपसार्यते, जातमशीतं शतं, मतांतरेण तु ते दशमासा एक भागीकृताः पंचदशभिगुण्यते, जातं पंचाशं शतं १५० ।। ततः स्थापना दिक्सा विंशति रारोपणा दिवसाः पंचदश प्रक्षिप्यंते, जातं पंचाशीतं शतं १८५॥ पंच दिनानि झोष इति तानि ततोऽपनीयंते, जातमशीतं दिवसशतमागतं, द्वाभ्यां स्थापनीकृताभ्यां मासाभ्यां दश दश दिनानि गृहीतानि, शेषेभ्यस्त्वेकादशमासेभ्य पंचदश पंचदश दिनानि यावत् पंच दिनानि झोषीकृत्वानि तथा विशिकायां स्थापनायां विंशिकायां चारोपणायामष्टादश संचयमासास्तेभ्यो द्वौ स्थापनामासावपनीती, जाताः षोडश, ततोवारोपणा द्वाभ्यां मासाम्यां निष्पन्नेति कृत्वा ते षोडश द्वाभ्यां भागाभ्यां क्रियते, एकतोप्यष्टावुपरितो प्यष्टावधः तत्रोपरितनमायमार्ग तिपंचगुणमिति वचनात् पंचदशभिर्गुणयेत् , जातं विशं शतं १२० ॥ अधस्तनास्त्वष्टौ सेसं च पंचगुणियमिति वचनतः पंचभिर्गुण्यंते, जातं चत्वारिंशत् ४० ॥ उभयमिलिते जातं षष्टं शतं १६० ।। अत्र स्थापनामासाभ्यां दश दश रात्रिदिवानि | गृहीतानि, अष्टाभ्यो मासेभ्यः पंचदश पंचदशान्येभ्यस्त्वष्टाभ्यः पंच पंचेति तथा विशिकायां स्थापनायां पंचविंशिकायां चारापणायां त्रयोविंशतिः संचयमासास्तेभ्यो द्वौ स्थापनामासौ शोधितौ जाताः पश्चादेकविंशतिरत्रारोपणा त्रिभिर्मासैनिष्पन्ने
॥७०॥
For Private and Personal Use Only