SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसुत्रस्य पीठिकानंतरः। ॥३॥ इह आदिमानि पंचापि सकलसूत्राणि सकलसूत्रसामान्यादेकं प्रथमं सूत्रं विवक्षितं, द्वितीयानि पंच सूत्राणि बहुशः शब्दविशेषितानि बहुशः शब्दविशेषितान्यपि बहुशः शन्दविशेषयित्वा विशेषात् द्वितीयं सूत्रं, तत्र प्रथमसूत्रे कृत्स्नारोपणा विभागः। कृता किमुक्तं भवति, यत्प्रतिसेवितं तत्सर्व परिपूर्ण दत्तं न पुनः किंचिदपि तस्मात् मुक्तमिति, द्वितीये सूत्रे बहुशोपि सेविते मासिकादौ परिहारस्थाने झोषित्वा शुद्धिः सदृशी प्रथमसूत्रगमसदृशी दत्ता, एवं प्रथमे द्वितीये च सूत्रे गते अयं तृतीयः सूत्रगमः किंप्रसिद्ध्यर्थमारब्धः । आचार्य आह । संयोगा इत्यादि तृतीयेस्मिन् सूत्रे संयोगः पंचपदगतः उपदर्शितः पुनः शब्दो विशेषणार्थः स चैतद्विशिनष्टि, पंचानामादिसूत्रगमानां संयोगज्ञापनार्थमिदं तृतीयं सूत्रमारब्धमिति, तथाहि पंचाना पदानां दशद्विकसंयोगे भंगाः, दशत्रिकसंयोगे, पंच चतुष्कसंयोगे, एकः पंचसंयोगे, तत्र योसावेकः पंचकसंयोगे सोऽनेन । सूत्रे साक्षात् गृहीतः तथाचाह तत्थंतिमसुत्तत्ति तत्र तेषु द्विकसंयोगादिभंगकेषु मध्ये अंतिमः पंचकसंयोगात्मको भंगः सूत्रेण गृहीतः विमक्तिलोपोत्र प्राकृतत्वात् अस्य ग्रहणादितरेपि सर्वे भंगका गृहीताः। किमिवेत्यत आह वल्लीवा वा शब्द उपमानार्थे वल्लीवत् यथा वल्ली अग्रे गृहीत्वा समाकृष्टा सर्वा समूलमध्या समाकृष्टा भवति एवमेतेनांतिमसंयोगसूत्रेण सर्वेप्येते द्विकादयः संयोगा गृहीता भवंत्यत एतदर्थमिदं सूत्रारब्धं, तत्र द्विक संयोगे दशभंगा इमे जे भिक्खू मासियं वा दोमासियंवा एएसिं परिहारठाणाणं अन्नयरं परिहारठाणं पडिसेवित्ता आलोएजा; अपलिउंचिय आलोएमाणस्स मासियं वा दोमासियं वा पलिउंचिय आलोएमाणस्स दोमासियं वा तेमासियं वा, १ एवं जे मिक्खू मासियं वा तेमासियं वा २ जे भिक्खू मासियं वा चाउम्मासियं वा ३ जे भिक्खू मासियं वा पंचमासियं वा ४ जे भिक्खू दोमासियं वा तेमासियं वा ५ दोमासियं वा स्र्थमिदं स्त्रारब्ध, तालमध्या समाकृष्टा भवति एवमेतत्वात आह बड़ीवा वा शब्द ! वा तेमासियं वा अलोएजा; अपलिशमगा इमे जे मिक्स मामसंयोगसूत्रेण सर्वेष्यते । For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy