________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उद्धियदंडो साहु अचिरेण उवेइ सासयं ठाणं । सोच्चिय अणुठियदंडो संसारपट्टतो होइ ॥ १५९ ॥ उद्धियदंडोगिहत्थो, असणवसण विरहितोदुही होइ; सोच्चिय अणुट्ठियदंडो असणवसणभोगवंहोइ १६० ___ उधृत उत्पाटितो गृहीतो दंडो येन स उधृतदंडः साधुरचिरेण स्तोकेन कालेनोपैति शाश्वतं स्थानं, प्रायश्चित्तं प्रतिपच्यातीचारमलापगमकरणत उत्तरोत्तरविशुद्धसंयमलाभात्ः स एव साधुरनुधृतदंडः संसारप्रवर्तको भवति । अतिचारजातस्य संसारकारणत्वात्। तथा उध्धृतदंडो गृहस्थोऽशनवसनविरहितो भोजनवस्त्रपरिहीनो दुःखी भवति स एवानुध्धृतदंडोऽशनवसनभोगवान् भवति । सूत्र-जे भिक्खू मासियं वा दोमासियं वा तेमासियं वा इत्यादि यो भिक्षुर्मासिकं वा द्वैमासिकं वा: त्रैमासिकं वा चतुर्मासिकं वा पंचमासिकं वा, वाशब्दाः सर्वे विकल्पास्तिथाचाह । एतेषां परिहारस्थानानामन्यतमत् सूत्रे मकारस्य रेफः प्राकृतत्वात् परिहारस्थानं प्रतिसेव्यालोचयेत् तस्येति सामर्थ्यादवसीयते यच्छब्दस्य तच्छब्दापेक्षित्वादप्रति- | कुंच्य आलोचयतो मासिकं वा द्वैमासिकं वा त्रैमासिकं वा चातुर्मासिकं वा प्रतिकुंच्यालोचयतः। सर्वत्र आपन्नप्रायश्चित्तापेक्षया अधिको मायानिष्पन्नो गुरुमासो दीयते, इति द्वैमासिकादि क्रमेणेह द्वैमासिकं वा त्रैमासिकं वा पंचमासिकं वा पाण्मासिकं वा तेणपरमित्यादि ततः परं पंचमासिकात्परिहारस्थानात्परं परस्मिन् पण्मासिकं परिहारस्थाने प्रतिसेविते आलोचनायां | | प्रतिकुंचिते वा त एव स्थिताः षण्मासाः । ततः ऊर्ध्वमस्मिन् तीर्थे आरोपणायाः असंभवात् । अत्र शिष्यः प्राह । कसिणासवणा पढमे, विइए वहुसोविएसरिसा; संजोगो पुण तइय तत्थंतिमसुत्त वल्लीवा ॥ १६१ ॥
कृतत्वात् परिहारस्थान या, वाशब्दाः सर्वे विश्वातेमासियं वा इत्यादि या भवति स एवानुभृतदंडोस्य
For Private and Personal Use Only