________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यवसायेन चत्वारि मासिकस्था मासस्य दश दश दिनान गृहाखतसेवनात्, अन्येन मंदतमाध्यवसायम
मूल्यस्य वृद्धिहानी तथा रागद्वेषवृद्धिहानिकृते प्रतिसेवनातः प्रायश्चित्तस्य वृद्धिहानी यथा केनापि तीव्ररागद्वेषाध्यवसायेन मासिकं स्थानं प्रतिसेवितं, तस्य मासः परिपूर्णो दीयते अपरेण मंदाध्यवसायेन द्वे मासिकस्थाने प्रतिसेविते तस्य एकैकस्य मासस्य पंचदश २ दिनानि गृहीत्वा मासो दीयते, शेषं त्यज्यते मंदाध्यवसायेन प्रतिसेवनात्, अन्येन मंदतमाध्यवसायेन त्रीणि मासिकस्थानानि प्रतिसेवितानि, तस्यैकैकस्य मासस्य दश दश दिनानि गृहीत्वा मासो दीयते, शेषं सर्व त्याज्यं, अपरेणातिमंदतमाध्यवसायेन चत्वारि मासिकस्थानानि प्रतिसेवितानि; तस्मै चैकैकस्य मासस्य अर्धाष्टमानि २ दिनानि गृहीत्वा मासो दीयते इत्यादि ततो भवति मूल्यं रागद्वैषौ एवं सकलद्वैमासिकादिसूत्रेषु बहुशः सूत्रेषु च कारणायतनाप्रतिसेविनो रागद्वेषवृद्धिहानित उपयुज्य बहुविस्तारं वक्तव्यं, तदेव गदमत्ति व्याख्यातमधुना अद्धाणसेवियमीत्यादि ब्याख्यायते गीतार्थेनाध्वनि उपलक्षणमेतदन्यस्मिन् कारणांतरे यदयतनया प्रतिसेवितं तत्र बहूनि मासिकस्थानान्यापन्नानि तानि चालोचनाकाले सर्वाण्यप्येकवलयालोचितानि गुरुश्चालोचनाप्रदानविशेषतो जानाति यथैव गीतार्थः कारणे च प्रतिसेवना कृता परमयतनया ततोऽयतनाप्रसंगनिवारणार्थ सर्वेषामपि मासानां समविषमाणां समविषमतया दिवसान् गृहीत्वा मास एकस्तस्मै दत्तः अगीतार्थोपि यो मंदेनाध्यवसायेन बहूनि मासिकस्थानानि प्रतिसेव्य तीव्रण बाध्यवसायेन प्रतिसेव्य हा मयादुष्टुकृतमित्येवमादिभिनिंदनैरालोचितवान् सोप्येकेन मासेन शुध्यति तथाप्यगीतार्थोऽपरिणामको वा चिंतयेत् द्वैमासिकाचापमोहं कथमेकेन मासेन शुद्ध्यामि ततः श्रुतव्यवहारी तस्य प्रत्ययकरणार्थमेकैकस्मात् मासात् कतिपयान् कतिपयान् दिवसान् गृहीत्वा मासमेकं प्रयच्छति । यथा द्वयोर्मासयोः प्रतिसेवितयोरेकैकस्यार्द्धमासमर्द्धमासं गृहीत्वा इति एवं सर्वपि मासाः सफलीकृता इति
For Private and Personal Use Only