________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शद्धस्य व्याख्यानमाह, उपश्रितो द्वेषसंयुक्तः, उपश्रा द्वेष इत्यनर्थातरमितिभावः; द्वितीयं व्याख्यानं निश्रीपश्राशद्वयोर्दर्शयति।छ। अहवाआहारादीदाहीइ मज्झ तु एस निस्सायोसीसो पडिच्छओ वा.होइ उवस्साकुलादी वा ॥भा१६॥
अथवेति व्याख्यानांतरोपदर्शने, एपोऽनुवर्तितः सन् मह्यमाहारादिकं दास्यतीत्येपापेक्षा लचोपजीवनस्वभावा, निश्रा तथा एष मे शिष्य एष मे प्रतीच्छक इदं मे मातृकुलमिदं पितृकुलमादिशद्वात् इमे मम सहदेशनिवासिनो भक्ता वा इमे सदैव : ममेत्यपेक्षाभ्युपगमस्वरुपा भवत्युपश्रा, अस्यां हि व्यवहारिणो द्रव्यव्यवहारिणो भवंति, गीयावालंचपक्खेहिं इति वचना तत एतयोः प्रतिषेधः उक्ता व्यवहारिणः, संप्रति व्यवहर्तव्यास्ते च नामादिभेदाचतुर्दास्तद्यथा नामव्यवहर्त्तव्या, स्थापना व्यवहतंव्या द्रव्यव्यवहर्त्तव्या भावव्यवहर्तव्याश्च, तत्र नामस्थापने प्रतीते, द्रव्य व्यवहर्तव्या अपि द्विधा आगमतो नोग्रागमतश्च, तत्रागमतो व्यवहर्तव्यशदार्थज्ञास्ते चानुपयुक्ता नोआगम तोपि त्रिधा, ज्ञशरीरभव्यशरीररूपाः प्रतीताः तद्व्यतिरिक्तस्तु द्विधा, लौकिका, लोकोतरिकाश्च, भावव्यवहर्तव्या द्विधा, आगमनोआगमभेदात् तत्र आगमतो व्यवहर्तव्यपदा
र्थज्ञाः सूत्रे चोपयुक्ताः, नोआगमतो लौकिका लोकोत्तरिकाश्च तत्र लौकिकद्रव्यभावव्यवहर्तव्य प्रतिपादनार्थमाह- .... | लोए चोराईया, दवे भावे विसोहिकामाओ. जायमयसूतकादिसु, निज्जूढा पायकहयाओ।भा१७॥
लोके लोकविपया व्यवहर्त्तव्याद्विधा, तद्यथा द्रव्यव्यवहर्तव्या भावव्यवहर्तव्याश्च तत्र द्रव्ये द्रव्यव्यवहर्तव्याश्चौरादयः चौरः तस्करःआदिशद्वात्पारदारिकघातकहेरिकादिपरिग्रहः, ते हि चौर्यादिकं कृत्वापि न सम्यक् प्रतिपद्यते, बलात्प्रतिपद्यमाना
तरिकाच, चानुपयुक्ता नामापने प्रतीते, दभेदाचतुर्दा
For Private and Personal use only