SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पीठि श्री व्यवहारसूत्रस्य ॥४॥ अत्र तृतीयभंगेनाधिकारस्तत्रापि सूत्रवेलायां सूत्रविद्भिरर्थवेलाया मर्यविद्भिस्तदुभयवेलायां तदुभयविद्भिरिति, सूत्रार्थतदुभयग्रहणं ॥अणिस्सियववहारकारी य इति निश्रारागः निश्रा संजाता अस्येति निश्रितो, ननिश्रितोऽनिश्रितः स चासौ व्यवहारश्च अनिश्रितव्यवहारस्तस्करणशीला अनिश्रितव्यवहारकारिण न रागेण व्यवहारकारिण इति भावः एकग्रहणे तजातीयस्यापि ग्रहणमितिन्यायादनुपश्रितव्यवहारकारिण इत्यपिद्रष्टव्यं, तत्र उपश्रा नाम द्वेषः उपश्रा संजाता अस्येति उपश्रितो न उपश्रितोऽनुपश्रितः स चासौ व्यवहारश्च तत्करणशाला अनुपश्रितव्यवहारकारिण; न द्वेषेण व्यवहारकारिण इत्यर्थः अथवा एषोऽनुवर्तितः स न मह्यमाहारादिकमानीय दास्यतीत्यपेक्षा निश्रा एष मदीयः शिष्यो यदि वा प्रतीच्छकोऽथवामदीयं मात्रादिकुलमतत् मदीया वा एते श्रावका इत्यपेक्षा उपश्राशेषं तथैव, अनानिश्रितव्यवहारकारिण इति किमुक्तं भवति? लंचोपचारनिरपेक्षाव्यवहारकारिणः न रागेण व्यवहारकारिण इति किमुक्तं भवति पक्षपातनिरपेक्षव्यवहारपरिच्छेत्ता इति, अथ प्रियधर्मदृढधर्मसंविग्नसूत्रार्थतदुभयविद्ग्रहणे किं फलमित्यत आह ॥ छ॥ पियधम्मे दृढधम्मेय, पच्चओ होइ गीयसंविग्गे, रागो उहोइ निस्सा उवस्सितो दोससंजुत्तो॥भा१५॥ प्रियधर्मणि दृढधर्मे च समुच्चये भिन्नक्रमश्च, गीते गीतार्थे सूत्रार्थतदुभयविदि संविने च प्रायश्चित्तं ददतिप्रत्ययो विश्वासो भवति यथायं प्रियधर्मी दृढधोगीतार्थः संविग्नश्चे ति नान्यथा प्रायश्चित्तव्यवहारकारीति, प्रियधर्मादिपदानामुपन्यासः, तथा अनिश्रितव्यवहारकारिण इत्यत्र योनिश्राशद्धस्तदर्थमाचष्टे, रागस्तु भवति निश्रा, अनुपश्रितव्यवहारकारिण इत्यत्रोपश्रित For Private and Personal Use Only
SR No.020933
Book TitleVyavahar Sutram
Original Sutra AuthorN/A
AuthorManekmuni
PublisherJain Shwetambar Sangh
Publication Year1926
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy