________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयो विभागः।
श्री व्यवहारसूत्रस्य पीठिका नंतरः।
॥४३॥
यति, केवलं यदि केवज्ञानादिबलेनैतत् जानाति, यथैव भणितः सन् शुद्धभावत्वात् सम्यक् प्रतिपद्यते, वर्तमानवद्वेति वचनतो भविष्यति वर्तमानाभिधानात्प्रतिपत्स्यते इति तदा स्मारयति, यदि पुनरेतदवगच्छति यथैप भणितोपि सन् न सम्यक् प्रतिपत्स्यते इति, तदा तमप्रतिपद्यमानं अप्रतिपत्स्यमानं न खलु नैव स्मारयति निष्फलत्वात् अमूढलक्ष्यो हि भगवानागमव्यवहारी; अत एव दत्तायामप्यालोचनायां यथालोचकः सम्यगावृत्तो ज्ञातस्ततस्तस्मै प्रायश्चित्तं प्रयच्छति, अथ न प्रत्यावृत्तस्तती न प्रयच्छतीति; श्रुतव्यवहारिणः प्राह । कप्पपकप्पी उसए, आलोययावेति तेउ तिक्खुत्तो;सरिसथ्थमपलिउंची विसरिसपरिणामतो कुंची॥१३७।।
कल्पग्रहणेन दशाश्रुतस्कंधकल्पव्यवहारा गृहीताः प्रकल्पग्रहेणन निशीथः कल्पश्च प्रकल्पश्च कल्पप्रकल्पं, तदेषामस्तीति | कल्पप्रकल्पिनः, दशाकल्पव्यवहारादिसूत्रार्थधरास्तु शब्दात् महाकल्पश्रुतमहानिशीथनियुक्तिपीठिकाधराश्च, श्रुते श्रुतव्यवहारिणः प्रोच्यते, ते चालोचकं त्रिःकृत्वस्वीन वारान् आलोचापयंति ते ह्येकं द्वौ वारावालोचिते अनेन प्रतिकुंचनयालोचितमप्रतिकुंचनया वेति विशेष नाववुध्यते । ततस्त्रीन् वारान् आलोचापयंति कथमिति चेत् उच्यते, प्रथमवलायां निद्रायमाण इव शृणोति ततो ब्रूते निद्राप्रमादं गतवानहमिति न किमप्यश्रौषमतो भूयोप्यालोचय, द्वितीयवारमालोचिते भणति न सुष्ठु मयावधारितमनुपयोगभावादतः पुनरप्यालोचय, एवं त्रिष्वपि वारेषु यदि सदृशार्थमालोचितं ततो ज्ञातव्यमेषो अप्रतिकुंचो अमायावी अथ विसदृशं तर्हि ज्ञातव्यमेष परिणामतः कुंची कुटिलो मायावी अथैकं द्वौ वा वारावालोचनादापनेन मायावी अमायावी वा किन्नोपलभ्यते, येन त्रीन वारानित्युक्तं, उच्यते, उपलभ्यते, परं स्फुटतरोपलब्धिनिमित्तं त्रीन्वारानालोचाप्यते,
॥४३॥
For Private and Personal Use Only