________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयो विभाग:
श्री व्यवहारसूत्रस्य पीठिकानंतरः।
॥३८॥
प्येकद्विव्यादिषु दिवसेषु न कुलादिकार्यसमाप्तिर्भविष्यति, न च परवादी जेष्यते तदा षण्माससमाप्तावेब राज्ञः समीपे गत्वा ज्ञापनीयं यथाहं दिनमेकमऽक्षणिको भविष्यामि, नान्यथा गृह्णीथा इति कुलादिकार्येष्वपि कुलादीन्यनुज्ञापयति तथा चाह तेणपरमित्यादि तेनेत्यव्ययं, तत इत्यर्थे ततः षण्मासेभ्यः परं कार्यापरिच्छित्तौ संभाव्यमाना या अनुज्ञापना कुलादेर्दिनमेकं यावत् कर्त्तव्या, राजश्च वादिविषये कारणं दीपयंत्यचार्याः, यथाहं कारणवशेन दिनमेकमक्षणिको भविष्यामीति एवं चेन कुर्वति तदा प्रायश्चित्तं चतुर्गुरुकाः । तदेवमुक्तः चपणोपसंपद्विधिरिदानी ज्ञानार्थ दर्शनार्थ चारि । त्रार्थ चोप संपद्यमानः प्रतीच्छितो नियमादालोचनां दापयितव्यः, स च दाप्पमानः कथमालोचनां ददाति, उच्यते ।
श्रालोयणं तहचेवय, मूलुत्तरे नवरि विगडिए इमं तुः ।
इत्थं सारण चोयण, निवेयणंतेवि एमेव ॥ ११६ ॥ यथा संभोगिकानां विहारालोचनायां मूलगुणातिचारविषये उत्तरगुणातिचारविषये च भणितं, तथात्रापि भणितव्यं, किमुक्तं भवति उपसंपद्यमानोप्यालोचनां ददानः पूर्व मूलगुणातिचारान् प्रागुक्तकमेणालोचयति, पश्चादुत्तरगुणानिति नवरमयं विशेषः, विकटिते आलोचिते एकत्र स्थितान् विभिन्नस्थितान्वा प्रत्येकं वंदित्वा इदं भणति,
आलोयणा में दिन्ना इच्छामि सारणवारणचोयणंति तेप्येवमेव । प्रतिभणंतो निवेदनं कुर्वति अजो अम्हे सारेजा, वारेजा, चोइजा इति।।
॥३८
For Private and Personal Use Only