________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयो
श्री व्यवहारसूत्रस्य पीठिकानंतरः। ॥३६॥
तदा तन्निमित्तं, प्रायश्चित्तं, अथ न प्रेरयति, तथा प्रभूतमटतो यदा नागाढादिपरितापना प्रामोति, तनिमित्तं प्रायश्चित्तं, अथ तत्र गच्छे अन्यो वास्तव्यः क्षपको न विद्यते, तदा नियमत:स प्रतीच्छनीयः, केवलं सोपि गच्छानुमत्या, अन्यथा न किमपि तस्य गच्छः करिष्यति, तत्र यदि प्रमादतो वैयावृत्यभीरुतया गच्छो नानुमन्यते, तदा स प्रज्ञापनीयः। अथ कारणवशतस्तदा न प्रतीच्छनीयः, यदि पुनर्गच्छाननुमत्यापि प्रतीच्छति तदा तस्य प्रायश्चित्तं चत्वारो लघुकास्तथा गच्छानुमतो यो यतः प्रतिलभ्यते स ततः क्षपकप्रायोग्यमानयति, अननुमतौ च न कोपि किमप्यानयतीत्यसति पारणकदिने पर्याप्त्या प्रायोग्यद्रव्ये असंस्तरणमसंस्तरणाच्च परितापनादुःख तन्निमित्तं प्रायश्चित्तमाचार्यस्य, तथा पारणकदिने ग्लानोपमो जायते, तथा शेषेषु साधुषु प्रयोजनांतरव्यापृततया भक्तं पानं वा ददानेषु स्वयं हिंडमाने ये दोषास्तेपि वक्तव्याः; संप्रति तस्य क्षपकस्य वास्तव्यस्यागंतुकस्य वा कृतप्रत्याख्यानस्यापि यत् प्रतिदिवसं कर्तव्यं तदाह, पडिलेहणेत्यादि तस्योपकरणं कन्पादि यथायोगमुभयकाल प्रतिलेखनीयं, संस्तारकश्च तस्य कर्त्तव्यः, तथा पानकं पानीयं तस्योचितमानीय दातव्यं तथा मात्रकत्रिक च उच्चारमात्र प्रश्रवणमात्रकं खेलमात्रकं च यथाकालं समर्पणीयं परीष्ठापनीयं च. सांप्रतमेनामेव गाथा व्याख्यानयन् प्रथमतो अनपडिच्छणे लहुगा इति असइ इति च व्याख्यानयति ।
दुण्हेगतरे खमणे, अण्णुपडिच्छंतसंथरेप्राणा । अप्पत्तियपरितावण सुत्तेहाणिअन्नहिं च इमे ॥ भा० ११३ ॥
For Private and Personal Use Only