________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तस्मिन् गच्छे यद्यन्यः कोपि विकृष्टतपःकारी क्षपको विद्यते, स च पारणकदिने ग्लागोपमो वा भवेदग्लानोपमो वा । तथापि तस्मिन्विद्यमाने क्षपके अन्य क्षपकमाचार्यों न प्रतीच्छेत्, प्राक्तनस्य हि आपकस्य पारणकदिने ग्लानोपमस्याग्लानोपमस्य |वा सतोवश्यं कर्त्तव्यं, न च द्वयोवैयावृत्यकरणे साधवः प्रभवंति, तस्मात् न प्रत्येषणीयः, यदि पुनः साधवोनुमन्यते सोपि प्रती
यता, तस्यापि वैयावृत्त्यकरणेन समाधिमुत्यादयिष्याम इति, तदा प्रतीच्छनीयः। यदि पुनर्गच्छे विद्यमानेपि विकृष्टतपःकारिणि क्षपके गच्छाननुमतावाचार्योऽन्यं प्रतीच्छति तदा तस्यान्यप्रतीच्छने प्रायश्चित्तं लघुकाश्चत्वारो लघुमासाः; असतित्ति तथा असति प्रायोग्यद्रव्ये ये दोषास्ते च वक्तव्याः, ते चामी द्वयोः चपकयोयुगपत्पारणकदिने समापतिते पर्याप्त्या पारणद्रव्ये भलाभतो असति असंस्तरणं भवेत्, असंस्तरणाच्च यदेषणादि प्रेरयंति, तनिमित्तं प्रायश्चित्तमाचार्यस्यापतति, आज्ञाभंगादयश्च दोषा जायंते, तथा पारणकप्रायोग्यद्रव्यसंपादनेन संस्तरणमकुर्वत्सु साधुषु विषये सोऽप्रीतिं कुर्यात्, अप्रीत्या च अनागाढामागाढा वा परितापनां प्राप्नुयात्, तथा च सति तनिष्पनमपि प्रायश्चित्तमाचार्यस्य, अन्यच्च शिष्याः प्रतीच्छकाश्च द्वयोरपि क्षपकयोवृत्यकरणतो भग्ना एवं चिंतयेयुर्यथान्यान्यक्षपकवैयावृत्यकारणेन नास्माकं सूत्रमर्थो वा, तस्मादन्यत्र बजाम इति । तथा गिलाणोवमे इति तेषु गच्छवासिषु साधुषु वास्तव्यक्षपकवैयावृत्त्यकरणच्यापृतेषु ग्लानापमो जायते, तदा तस्याचार्यस्य प्रायश्चित्तं चतुर्गुरुकाः, अडतेयत्ति तथा गच्छे वास्तव्यक्षपककरणब्यावृततया भक्तपानं वागंतुकस्याददाने स भक्तार्थ पानार्थ वा स्वयं हिंडेत प्रतिलेखनादिक्रिया च स्वयमेव कुर्यात्, हिंडमानश्च क्षुधापिषासया शीतेनोष्णेन वा पीडितो यद्यनागाढा परिता- | पना प्रायश्चित्तमाचार्यस्य चतुर्लघु, अथ गाढां तदा चतुर्गुरु अथ मूर्च्छति तदा षट् लघु, तथा परिताप्यमानो यद्येषणां प्रेरयति,
For Private and Personal Use Only