________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रस्य पीठिकाsनंतरः।
द्वितीयो विभागः।
॥ २६ ॥
| त्यादरेण भगवंतः शिक्षयंतां मा शरणमुपागतं परित्यजत एवं परीक्षानिर्वहतः परिग्राह्यः इतरस्तु परित्याज्यः तत्रावश्यके यथा परीक्षा कर्तव्या तथोपदर्शयति ॥ हीणाहियविवरीए सतिवि बले पुवटुंते चोएइ। अणचोवोदेन्ती न ममंति इहं सुहं वसिउं॥भा०८५॥
हीनं नाम यत् कायोत्सर्गसूत्राणि मंदमंदमुच्चार्य शेषसाधुषु चिरकालं कायोत्सर्गस्थितेषु पश्चात् स कायोत्सर्गे तिष्ठति इत्यादि । अधिकं नाम कायोत्सर्गसूत्राण्यतित्वरितं त्वरितमुच्चार्यानुपेक्षाकरणार्थ पूर्वमेव कायोत्सर्गे तिष्ठति, रत्नाधिके चोत्सारिते
कायोत्सर्गे पश्चाच्चिरेण स्वं कायोत्सर्गमुत्सारयति इत्यादि, विपरीतं नाम प्रादोषिकान् कायोत्सर्गान् प्राभातिकानिव करोति, प्राभातिकान् प्रादोषिकानिव इत्यादि हीनं वाधिकं च विपरीतं समाहारो द्वंद्वस्तस्मिन् प्रमादतो वर्तमानान् अथवा सूर्ये किल
अस्तमितमात्रे एव निर्व्याघाते सवैरपि साधुभिराचार्येण सह प्रतिक्रमितव्यं, यदि पुनराचार्यस्य श्राडादिधर्मकथादिभिर्व्या| घातस्ततो बालवृद्धग्लानासहान् निषद्याधरं च मुक्त्वा शेषैः सूत्रार्थस्मरणार्थ कायोत्सर्गेण स्थातव्यं, ये पुनः सत्यपि बले पूर्व कायोत्सर्गे न तिष्ठति । तान् पूर्वमतिष्ठतश्चोदयति, यः पुनः परीक्षते तं प्रमाद्यंतमपि न शिक्षयति, ततो यदि स एवं व्यवस्यति, यथात्मीयान् प्रमाद्यतश्चोदयति न मामिति सुखमिह वसितुमिति, स इत्थंभूतः पंजरभग्नो ज्ञातव्यो न प्रतीच्छनीयः॥ जो पुण चोइजते दगुण नियत्तए नतो ठाणा; भणइ अहं भे चत्तो, चोएह ममंपि सीयंतं ॥भा०८६॥
॥ २६॥
For Private and Personal Use Only