________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
च प्रतीच्छति तस्यापि प्रायश्चित्तमेवमेव, तद्यथा यतिमंडनकारिप्रत्यनीकलुन्धानुबद्धवैरान् प्रतीच्छतश्चत्वारो गुरुमासाः शेषान् षट् प्रतीच्छतश्चत्वारो लघुमासाः । अथवा ये एते दोषा उक्तास्तेषां मध्ये एकनापि दोषेण नागतो भवेत् किंत्वेभिवक्ष्यमाणैस्तानेवाह ।। एगे अपरिणह वा अप्पाधारे य थेरए, गिलाणे बहुरोगी य, मंदधम्मे य पाहुडे ॥ भा० ॥ ७४ ॥
यदि एक एकाकी पश्चादाचार्यः । यदिवा अपरिणतः अकल्पिकवस्त्रादिसहितः स च कल्पिकवस्त्राद्युत्पादने लब्धिमान् । अथवा पश्चादाचार्योऽल्याधारसूत्रार्थनैपुणविकलः स च पृष्टः सन् सूत्रार्थकथने निपुणशक्तिमान् यदि वाचार्यः परिवारोवा स्थविरो जरसा वृद्धशरीरः स च तेषां प्रतिजागरकः अथवा पश्चादेको ग्लानः । स च तस्य चिंताकारी यदिवा पश्चात्तत्रैको बहुरोगी बहुरोगी नाम बहुभिः साधारणैः रोगैर्याप्यशरीरः स च तस्य वर्तापकः, यदिवा पश्चातेनाचार्यपरिवारः सर्वोपि निर्द्धा न गुर्वाज्ञां करोति केवलं तद्भयात् किमपि करोति तथा तत्र पश्चात् गुरोः केनापि सह प्राभृतं वर्तमानमस्ति । प्राभृतं | नाम अधिकरणं, स च गुरोः क्रमेणाधिकरणापनयनतः साहाय्यकारी एवं प्राग्वर्त्तमाने यदि समागतो भवति तदा तस्य निर्गमनमशुद्धमशुद्ध त्वाच्च परित्याज्य इति । एनामेव गाथां व्याख्यातुकामः प्रथमत एकापरिणताम्पाधारद्वाराणि व्याख्यानयति। एगाणियं पमोत्तुं । वत्थादिअकप्पिएहि वा सहियं; अप्पाधारोवायण तं चेव य पुच्छिउं देइ ॥७॥ __ एकमेकाकिनं पश्चादाचार्य मुक्त्वा यदि समागतः, अथवा वस्त्रायकल्पिकैः कथमपि गृहीतैरकल्पिकैवस्वादिभिः सहितं
For Private and Personal Use Only