________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चंकमणादि उट्ठाणे, कटिगहणं झाउ नत्थि थद्धेवं; मुंजइ सयमुक्कोसं, न य देंत तेसिं लुद्धेवं ॥भा०॥७॥
स्तब्ध एवं भाषते. चंक्रमणादावुत्थाने कटिग्रहणं स्वाध्यायश्च नास्ति एतदुक्तं भवति, यद्याचार्याश्चंक्रमणं कुर्वन् आदिशब्दात् यदिवा कायिक्यादिभूमि गच्छंत्यागच्छंति वा तथा अभ्युत्थातव्याः तेषां नायकत्वात् तत एवं चंक्रमणादावभ्युत्तिष्ठतामस्माकं कटी बातेन गृह्यते भूयो भूयो उत्थाने पलिमंथभावात् सूत्ररूपस्यार्थरूपस्य वा स्वाध्यायस्य हानिः । अथ | नाभ्युयंते तत आचार्याः प्रायश्चित्तं ददति खरंटयंति च, ततोहं विनिर्गतः, लुब्धः पुनरेवं ब्रूते, यत् किमप्युत्कृष्टं शिखरिणी मोदकादि तदाचार्यः स्वयं भुक्त, न त्वमादृशेभ्यो ददाति, अन्येभ्यो वा बालवृद्धदुर्बलप्राघूर्णकेभ्यो ददाति, तत एतदसहमानोहं निर्गतः, अधुना निद्धालसयोरुक्तिविशेष प्रकटयति ॥ आवस्सियापमजण अकरणे उग्गदंडनिद्धम्मो, बालावुड्डादीहा, भिक्खाचरिया य उब्भामा ।।भा०॥७१॥
यो निर्द्धा स पृष्टः सन्नेवं वक्ति, आवश्यकीप्रमार्जनाकरणे उग्रदंडा आचार्याः । इयमत्र भावना, यदि कथमपि निर्गच्छन् प्रविशन् आवश्यकीं नैपेधिकी च न करोति, दंडादिकं गृहणान् निक्षिपन्वा न प्रमार्जयति तत आचार्या निरनुकंपाः संत उग्रं प्रायश्चित्तरूपं दंडं प्रयच्छति, ततोहं दंडभयात् विनिर्गतः, यः पुनरलसः स एवं ब्रूते, बालाद्यर्थाय बालवृद्धादीनामर्थाय तस्मिन् गच्छे दीर्घा भिक्षाचर्या, अथवा क्षुल्लक कर्कशं वा तत् क्षेत्र, ततो दिने दिने उद्ग्रामा, भिक्षाचर्या प्रतिदिबसमन्यत्र ग्रामांतरे गत्वा नीयते इति भावस्तथा यदि कथमप्यपर्याप्तेन समागम्यते ततो गुरुः खरंटयति, किंवसतो महा
For Private and Personal Use Only