________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kailassagarsuri Gyanmandir
आलोचनीयं तदालोचनाविषयं विधिमाह ॥ मूलगुणपढमकाया तथ्यवि पढमं तु पंथमादीसु । पायअपमजणादी बिइए उल्लाइ पंथे वा॥भा०॥५७॥
इह द्विविधा अपराधा मूलगुणापराधा उत्तरगुणापराधाच, तत्र उभयसंभवे प्रथम, मूलगुणत्ति मूलगुणापराधा आलोचनीयाः, तेष्वपि मूलगुणापराधेषु मध्ये प्रथमं मूलगुणापराधः प्राणातिपात इति, स प्रथममालोचनीयः, । स च षड् | जीवकायविषय इति कायाः प्रथमतः आलोचयितव्यास्ते च कायाः पृथिव्यादिक्रमेण तत्र सूत्रे उपन्यस्ता इति, तत्थवित्ति, | तेष्वपि कायेषु पृथिव्यादिषु प्रथमं पृथिवीकायमेवमालोचयेत्, पंथमादीसु पायअपमज्जणादी, पंथादिषु यत्पादाप्रमार्जनादि कृतं किमुक्तं भवति ? पथि बजता स्थंडिलादस्थंडिलमस्थंडिलात स्थंडिलं कृष्णमृत्तिकातो वा नीलमृत्तिका नीलमृत्तिकातो | वा कृष्णमृत्तिका, एवं शेपवर्णेष्वपि भावनीयं, संक्रामता पादयोर्यत् प्रमार्जनं न कृतं तथा वातोद्धतेन सचित्तेन रजसा सचित्तया वा मृत्तिकया संसृष्टेन हस्तेन संसृष्टेन मात्रकेण वा यत् भिक्षाग्रहणं कृतं, तदेवमाद्यालोचयेदिति सर्वत्रापि सामर्थ्यात् योजनीयं, बितिए उल्लाइपंथे वा इति पृथिवीकायविराधनालोचनानंतरं द्वितीये अप्कायविषये यत् उदकाादि आदिशब्दात् सस्निग्धादि परिग्रहः एतदुक्तं भवति, उदकार्टेन सस्निग्धेन वा हस्तेन मात्रकेण वा भिक्षाग्रहणं कृतं पथि वा मार्गे वा अयतनया उदकमुत्तीर्ण च । एवमादि तदालोचयेत् । | तइए पइट्ठियादी, अभिधारणवीयणादि वाउंमि; बीयाइ घट्टपंचमे, इंदिये अणुवायतो छटे भा०॥५८॥
* रा. क्रोभा २ प्र. ॥ ४०६ ।।
For Private and Personal Use Only