________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ओघेनालोचना नियमाच्चैकदैवसिकी एकदिवसनिर्वृत्ता अल्पापराधत्वात् आसत्रभोजनकालत्वाच विभागेनालोचना एक | दिवसिकी अनेकदिवसिकी वा कथं पुनरनैकदिवसिकी संभवतीति चेत् उच्यते, बहवो यदा अपराधास्तदा बह्वालोचयितव्य| माचार्याश्च कथमपि व्यापृता भवेयुस्ततो न बही वेलां प्रतीच्छति, पालोचको वा गच्छादि प्रयोजनतो व्यापृतोभवेत् । तत एवमनैक दिवसिकी विभागालोचना भवति सा च विभागालोचना रत्तिं वा इति रात्रौ वा गाथायां द्वितीय सप्तम्यर्थे प्राकृतत्वातप्राकृते हि विभक्तीनां व्यत्ययो भवति, व्यत्ययोप्यासामितिवचनात्, दृश्यते च । लौकिकप्रयोगेपि सप्तम्यर्थे द्वितीया यथाउअविणयतत्तिल्लेरेसि सरिद्दहेमएमरेकत्तोरत्तिमुद्देपाणि उसद्धासउणयाणमिति दिवसतो वा सप्तम्यंतात् तस् प्रत्यय:दिवागतोविभागालोचना विस्तरबहुलत्वात्साह्याचार्यस्यालोचकस्य वा प्रपारिते न भवति ततोदिवसे रात्रौ वा सा न विरुध्यते इति ओघतोषालोचनापुनदिवसं दिवसे अत्रापि द्वितीया सप्तम्याथ आघालोचना हि भोजनकाले प्रत्यासन्ने भवति साधवश्च रात्रौ न भुंजते ततः । सा | नियमतोदेवसिकी संप्रति त्रिविधाया अप्यालोचनाया वैभागिक्याः प्रशस्ताप्रशस्तदिनचितां चिकीर्षुरिदमाह ।। विभागेण अप्पसथ्थे दिणं मि रत्तिचिवक्खवतोवावि, आइल्लादोणि भवेवि वक्खवतो होइ तइयाउभा५४ । इह त्रिविधालोचना वक्तुमुपकांता तद्यथा विहारालोचना उपसंपदालोचना अपराधालोचना च एकेका द्विधा ओघतो विभागतश्च, तत्रोघतो भोजनकाले प्रत्यासन्ने भावान प्रशस्ताप्रशस्तदिनाचिंता विभागतः पुनरस्तीति सा प्रोच्यते । आदिल्लादोषिणभवेइत्ति आये द्वे आलोचने विहारालोचना उपसंपदालोचना चेत्यर्थः विभागेन विस्तरेण दीयमाने भवेयातामप्रशस्ते दिने
For Private and Personal Use Only