________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षेत्रस्थानं, अथवा यत्र क्षेत्रे ग्रामादिग्राम नगरादि निवेश्यते तत् क्षेत्रं ग्रामादीनां स्थानमिति क्षेत्रस्थानं क्षेत्रमेवस्थानं क्षेत्रस्थानमिति व्युत्पत्तेः, तथा च लोके ग्रामादीनामुद्वसितानां स्थानमवलोक्यवक्ताभवति । इदं ग्रामस्थानमिदं नगरस्थानमिति अद्धदुविहाउ इत्यादि । अद्धाकालः स द्विधा जीवेषु अजीवेषु च तत्राजीवेषु यस्य यावती स्थितिः तस्यतावान् कालः स्थान जीवेषु संसारिषु पुनर्द्विविधः कालः कायस्थितिः भवस्थितिश्च तत्र सुरनारकाणामेकभवावस्थानात् भवस्थानं भवस्थितिः कालस्थानं, शेषाणां तिर्यङमनुष्याणामनेकभवग्रहणसंभवात् कायभवस्थानं यथासंभवाकाय स्थितिः कायस्थानं भवस्थितिः, भवस्थानं कालस्थानमित्यर्थः अथवा कालस्थानं समय आवलिका इत्यादि कालसामान्यस्य एतेषु विशेषेष्ववस्थानात् , ऊर्ध्वादि स्थानप्रतिपदनार्थमाह ॥ ठाणनिसीयतु अट्टण उड्ढा दीवसहि निवसए जथ्थ, विरत्तीदेसे सव्वे संजमठाणा असंखाउभा०॥३२॥
मूलगाथायां उर्ध्वग्रहणतजातीयतया निपीदनत्वग्वर्त्तनयोरुपलक्षणं ततइहोक्तमूर्धादिकिंतत् ऊर्धादीनिचेदताहस्थाननिपीदनत्वग्वर्त्तनानिसूत्रेत्रविभक्तिलोपः प्राकृतत्वात् तत्रस्थानमूर्धस्थानं कायोत्सर्गइत्यर्थः, निषीदनमुपवेशनंत्वग्वर्त्तनंशयनं तथा साधुजनइतरो वा यत्रनिवसतिसा वसतिः सैवस्थानं वसतिस्थानं, विरतिद्विधादेशे सर्वस्मिश्च तत्रदेशविरतिः श्रावकाणां पंचाणुव्रत भावात् सर्वविरति साधूनामपंचमहाव्रत भावात सैवस्थानं तत्र श्रावकाणां साधूनां चावस्थानात् विरतिस्थानं संयमस्थानं ज्ञानदर्शनचारित्र परिणामात्मकोध्यवसाय विशेषः तान्यसंख्येयानि तत्रप्रथममपि संयमस्थानं पर्यवपरिमा
For Private and Personal Use Only