________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्यादि वर्ष मर्यादयायथोक्तरूपंखोटादिभंजन एक द्वे त्रिणि वर्षाणि यावत् वसति तावन्तंवाकालं यावत् राज्ञानुग्रहः कृतस्तावंतंकालं वसति न च हिरण्यादि प्रददाति नापि वेष्टिं करोति न चापि चारभटादीनां भोजनादि प्रदानं विधत्ते एष खोटादि भंगो अनुग्रह परिहारः; भावेइति भावविषय परिहारो द्विधा तद्यथा आपनपरिहार: शुद्धपरिहारश्च तत्र यत् विशुद्धः सन् पंचयाममनुत्तरंधर्म परिहरति करोति, परिहारः शन्दस्य परिभोगेऽपिवर्तमानत्वात् स शुद्धपरिहार: शुद्धस्य सतः परिहारः पंचयामानुत्तरधर्मकरणं शुद्धपरिहार इति व्युत्पत्तेः यदिवा यो विशुद्ध कल्पव्यवहार क्रियते, स शुद्धपरिहार शुद्धश्चासौ परिहारश्च शुद्धपरिहार इति व्युत्पत्तेः । यथायत् मासिकं वा यावत् षण्मासिकं वा प्रायश्चित्तमापनं तत् आपने अपरिभोगपिवते, परिहियते इति, परिहारः । कर्मणिपन् आपत्रमेव परिहारः। आपनपरिहार इति व्युत्पत्तेः तथाचाह मासादी आवने इति मासादिकं यत्प्रायश्चित्तस्थानमापनं तत् आपने आपनपरिहारे द्रष्टव्यं मासादिकं यत् प्रायश्चित्तस्थानमापन तत् आपनपरिहार इति भावः । अथवा परिहरणं परिहार इति भावेघञ् । आपनेन प्रायश्चित्तस्थानेन परिहारो वर्जनं साधोरितिगम्यते आपन| परिहारः । तथाहि स प्रायश्चित्ती अविशुद्धत्वात् विशुद्धचरणैः साधुभिर्यावत् प्रायश्चित्त प्रतिपच्यान विशुद्धो भवति तावत् | परिहियते इति इह तेन आपन्नपरिहारेण प्रकृतमधिकारो न शेषैः परिहारैः तदेवं परिहार शन्दनिक्षेप प्ररूपणाकृता, संप्रतिस्थानशन्दे निक्षेपप्ररूपणार्थमाह ।। नामंठवणादविए, खेत्तऽद्धाउड्व वसहि विरतीय ॥ संगमपग्गहजोहे अचलगणण संधणा भावे॥भा०॥३०॥
For Private and Personal Use Only