________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
यो यदा पार्थिवः पृथिवीपतिर्भवति स तदास्वकालं धान्यं प्रस्थकमन्यं स्थापयति, तस्मिश्च स्थापिते ये पुरिनेणं-ति, पुरातनेनोपलवणमेतत् स्वमतिपरिकल्पितेन वा व्यवहरंति तान् तथा व्यवहरतो दंडयति एवं तिर्थकृदपि भगवान् यो यावत् प्रमाणमुत्कृष्टं तपःकर्म छद्मस्थकाले कुर्वन् तपःकर्मपरिमाणं व्यवस्थापयति स स्वतीर्थे तावत्प्रमाणादधिकं तपःकर्म व्यव
हारतः संसारदंडेन दंडयति तस्मात्तस्य तीर्थे तावत्प्रमाणमेव व्यवहर्त्तव्यमिति । अथ कस्य तीर्थे कियत्प्रमाणं तपःकर्मेत्यत आह । संवच्छरं तु पढमे मज्झिमगाणहमासियं होइ । छम्मासपच्छिमस्स उ माणं भणियं उक्कोसं ॥१४॥ | प्रथमे प्रथमतीर्थकरकाले मानं तपःकर्मपरिमाणमुत्कृष्टं भणितं संवत्सरमेव तुरेवकारार्थः मध्यमकानां द्वाविंशतितीर्थकृतां तपःकर्मपरिमाणमुत्कृष्टं भवत्यष्टमासिकमष्टमासप्रमाणं, पश्चिमस्य तु भगवतो वर्द्धमानस्वामिनः तपःकर्मपरिमाणमुत्कृष्टं भणितं षण्मासाः अत्रैव भूयः शिष्यशंकामाह। पुणरवि चोएइ ततो पुरिमा चरमा य विसमसोहीया। किह सुझंती तेऊ चोयग इणमो मुणसु वोच्छं॥
एवमनंतरोदिते सूरिणाभिहिते पुनरपि शिष्यश्चोदयति प्रश्नयति यदि नामैवं ततः पूर्वादितीर्थकरतीर्थवर्तिनश्चरमाः पश्चिमतीर्थकरतीर्थवर्तिनो विषमशोधिका विषमप्रायश्चित्ता अभवन् ततः कथं ते विषमशोधिका अविशेषेण शुद्ध्यंति सर्वात्म
ना शुद्धिमासादयंति न खलु कारणवैषम्ये कार्यमविषमं दृष्टमत्र तु विषम प्रायश्चित्तं विशोधिस्तु सर्वेषामप्यविशेषेणतुल्या, ततो || दुर्घटमेतदिति भावः । अत्रमूरिर्यत् प्रायश्चित्तवैषम्ये कारणं यथा च कारणविषमतायामपि तुल्या विशोधिस्तदेतत् प्रतिपाद
For Private and Personal Use Only