________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निपातार्थ-निर्णय
२२१
['प्रसज्यप्रतिषेध' के प्रयोगों के अर्थ]
तस्या समस्तस्य तु 'अत्यन्ताभावः' एवार्थः । असमस्तस्य तु 'अत्यन्ताभावः, 'अन्योन्याभावः' च । तादात्म्येतरसम्बन्धाभावः 'अत्यन्ताभावः' । तादात्म्यसम्बन्धाभावः 'अन्योन्याभावः' भेदः इत्यर्थः । 'असूर्यम्पश्या राजदाराः', 'गेहे घटो नास्ति,' 'घटो न पटः' इत्युदाहरणानि । प्रागभावप्रध्वंसाभावौ तु न नञ्द्योत्यौ । तत्र 'अत्यन्ताभावः 'विशेष्यतया तिङन्तार्थ-क्रियान्वय्येव। नअर्थ:-- 'अत्यन्ताभाव'--विशेष्यकबोधे तिङ्समभिव्याहृत-धातुजन्योपस्थिते: कारणत्वात् । तथा च 'घटो नास्ति' इत्यादौ 'घटकर्तृक-सत्ताप्रतियोगिकोऽभावः' इति बोधः । अतएव 'अहं नास्मि', 'त्वं नासि' इत्यादौ 'घटौ न स्तः', 'घटा न सन्ति' इत्यादौ च पुरुष-वाचनव्यवस्था उपपद्यते अन्यथा युष्यमदादेस्तिङ्सामानाधिकरण्याभावात् 'मद् अभावोऽस्ति' इत्यादाविव सा न स्यात् ।
अ सन्देहः' इत्यादौ आरोपितार्थकनव समासः । 'अत्यन्ताभावः'तु फलित एव । 'वायौ रूपं नास्ति' इत्यत्र तु तात्पर्यानुपपत्त्या रूपप्रतियोगिकात्यन्ताभावे लक्षणा । तेन 'वाय्वधिकरणिका रूपाभावकर्तृ का सत्ता' इति बोधः । वस्तुतस्तु समनियताभावैक्यम् आश्रित्य फलितार्थ एवायम् । 'अरूपम् अस्ति' इत्यर्थकं वा तत्' । एतेन 'अत्यन्ताभाव-प्रकारकक्रियाविशेष्यको बोधः' इति ताकिकोक्तम् अपास्तम् ।
१. १०-तत्र। २. ह. में इसके बाद “असमस्त-समस्ते 'असन्देहः' 'अविवादः' इत्यादौ अत्यन्ताभावार्थक नोंऽप्यक्रियान्व
यित्वात् असमस्त इत्युक्तम्" इतना अधिक है। ह-नपदार्थ ।
ह-अहं नासम् । ५. ह.-में 'सा न स्यात्' के स्थान पर 'सा पुरुष-वचन-व्यवस्था न स्यात्' है।
__'असन्देहः इत्यादी...वा तत्' यह अंश हक में अनुपलब्ध है।
For Private and Personal Use Only