________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिभाषा। यस्य यस्यास्ति यद्यत्तु, लक्षणं छन्दसो मतम् । तेन तेनैव पद्येन, तत्तदन्न प्रवक्ष्यते ॥२॥
(अन्वयः) यस्य यस्य छन्दसः यद्यत् तु लक्षणं मनमस्ति अत्र वृत्तबोधे तत्तत तेन तेनैव पद्येन प्रवक्ष्यत इत्यन्धयः ।
(टीका) तुशब्दोऽवधारणार्थस्तेन यस्य यस्य छन्दसो यद्यदेव स्वरूपं निर्णीतमस्ति (छन्दःशास्त्रे इति शेष:) तत्ततेन तेनैव पद्येनात्र वृत्तबोधे कथयिष्यत इत्यर्थः ।
(प्रति०) छन्दसाम्रद्यस्य । तु-व। लक्षण=म्यरूपम् । प्रवक्ष्यते कथयिष्यते।
(भाषा) जिस जिस छन्द का जो जो लक्षण है इस वृत्तबोध में उस को उसी छन्द से कहा जायगा ॥२॥
_ (गुरुलघुविचार) वा पादान्ते गुरु ज्ञेय,-मनुस्वारविसर्गयोः । संयोगे परतश्चाद्य, दीर्घ च स्याद्यदक्षरम् ॥३॥
(अन्वयः) पादान्ते वा गुरु ज्ञेयम्, अनुस्वारविसर्गयोः संयोगे च परत श्राद्यम्, यञ्चाक्षरं दीर्घ स्यादित्यन्वयः ।।
(टीका) चरणान्ते यदक्षरं तद्विकल्पेन द्विमानं बोध्यन, अनुस्वारे विसर्गे तथा संयुक्तवणे परे पूर्वम् , किञ्च दीर्वं यदक्ष तदपि द्विमात्रमित्यर्थः ।
For Private And Personal Use Only