________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्वागता अक्षरं गुरु भवेदशमं तु, ___ व्यत्ययेन नवमं लघु यत्र । पूर्ववद्यतिमती प्रथितासा,
स्वागतेति कवयः कथयन्ति ॥ २२ ॥ (अन्वयः) यत्र तु व्यत्ययेन नवममक्षरं लघु दशमं गुरु भवेत्. पूर्ववत् यतिमती प्रथिता सो स्वागता इति कवयः कथयन्ति ।।
(टीका) यस्यां पुन: पूर्वस्मात वैपरीत्येन नवममक्षरं लघु दशमं गुरः भवेत, पूर्ववदेव सप्तमचतुर्थाक्षरेषु यतियुक्ता ख्याता सा स्वागता इति पण्डिताः कथयन्ति ॥
(प्रति०) तु= पुनः । व्यत्ययेनः- पूर्वोक्तवैलक्षण्येन । पूर्ववत् स्योद्धतावत । यतिमती= यतियुक्ता । प्रथिताख्याता ॥
(भाषा) जिन के प्रत्येक चरण में नववा अक्षर लधु और दशवा गुरु हो,तथा रथोद्वता के समान विश्नाम हो उसे स्वागता कहते हैं । इस के प्रत्येक चरगा में गुरु लघु-न्यास इस प्रकार हैं - (55555)॥२२॥
तोटक सकलाश्चरणाः सगणे रचिता,
विरतिश्च तथा रसोरुदिता।
For Private And Personal Use Only