________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मात्रावृत्तिरियं पिङ्गलादिषु प्रसिद्धा, एतत्प्रभेदेऽपि मात्रा एव परिगण्यन्ते ॥
(प्रति०) तुर्य-चतुर्थे । उक्तमवशिष्टम् ।
(भाषा) जिस के पहले तथा तीसरे चरण में बारह बारह, और दूसरे में अठारह, तथा चौथे में पन्द्रह मात्राएँ हों वह आर्या छन्द कहलाता है ॥ ८ ॥
गीति पूर्वार्द्धवदार्याया,यत्र पराई च जायते वृत्तौ ।
कविकुलतिलकैः सर्वेः, सेयमिहाऽऽयव गीयते गीतिः ॥१॥
(अन्वयः) यत्र वृत्तौ आर्यायाः पूर्वार्द्धवत् परार्द्ध च जायते. सर्वैः कविकुलतिलकैः इह सा इयम् श्रायैव गीतिः गीयते ॥
(टीका) यस्याम् आर्यायां प्रथमद्वितीय चरणतुल्यस्तृतीयचतुर्थचरणयोरपि मात्रान्यासो जायते, अर्थात् प्रथमवत्ततीयेऽपि द्वादश, द्वितीयवच्चतुर्थेऽप्यष्टादश मात्रा भवन्ति इह-छन्दःशास्त्रे सेयमायैव गीतिरिति नाम्ना सर्वैर्महाकविभिः कथ्यत इत्यर्थः ॥
(प्रति०) पूर्वार्द्धवत् प्रथमद्वितीयचरणद्वयवत् । पराई-तृतीयचतुर्थचरणद्वयम् । च= अपि । कविकुलतिलकै महाकविभिः । गीयते कथ्यते ।
For Private And Personal Use Only