________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमं लघु षष्ठं च, गुरु सर्वत्र निश्चितम् । युग्मयोः पादयोः पद्ये, सप्तमं च तथा लघु ॥७॥
(अन्वयः) पद्ये सर्वत्र पञ्चमं लघु षष्ठं च गुरु तथा युग्मयोः पादयोः सप्तमं च लघु निश्चितम् ॥
(टीका) पद्यनामके छन्दसि सर्वेषु पादेषु पञ्चममक्षरं लघु षष्टं गुरु तथा द्वितीयचतुर्थपादयोः सप्तमं च लघु नियतमित्यर्थः।
(प्रति०) निश्चित नियतम् । युग्मयोः द्वितीयचतुर्थयोः । स्पष्टमितरत् ।
(भाषा) पद्यछन्द के भी चारों चरणों का पांचवाँ अक्षर लघु तथा छठा गुरु ही रहता है किन्तु केवल दूसरे और चौथे चरण का सातवाँ अक्षर लघु होता है ॥ ७ ॥
मात्रावृत्ति.
आर्या. प्रथमे तथा तृतीये,बादश मात्रा भवन्ति यदि पादे। अष्टादश द्वितीये, तुर्ये चेत् पश्चदश साऽऽर्या ॥८॥
(अन्वयः) यदि चेत् प्रथम तथा तृतीय पादे द्वादश, द्वितीयेऽष्टादश, तुर्ये पञ्चदश मात्रा भवन्ति सा आर्या ॥
(टीका) यदि चेत् प्रथम-तृतीयचरणयोद्वादश, द्वितीयेऽष्टादश तथा चतुर्थे पञ्चदश मात्रा: लघुगुरुसंकलनया मात्रिका: स्वावजा पन्ते (तदेति शेवः) सा आर्यानगम्नी वृत्तिरित्यर्थः ।
For Private And Personal Use Only