________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallassagarsuri Gyanmandir
296 विशेषा० अथ भावचनशब्दार्थमाह
पैगयाइअभिविहीए परयणं पावयणमाइवयणं वा । सिवपावयवयणं वा पावयणं, पवयणं भणियं॥१३८२।।
'पगयाइ त्ति' पूर्ववत् प्रगताद्यर्थोत्रापि प्रशब्दः, आङ् मर्यादायाम् , अभिविधौ च गृह्यते । प्रगतं, प्रशस्त, प्रधानम् , आदी या जीवादिष्वभिविधि-मर्यादाभ्यां वचनं मावचनम् , शिवमापकं वा वचनं मावचनमुच्यते । प्रवचनशब्दार्थस्तु मागेद भणित इति । तदेवमुक्ता प्रवचनैकार्थिकविभागः ॥ १३८२ ॥
अथ सूत्र-तन्त्र-ग्रन्थशब्दार्थमाहसुत्तं भणियं तंतं तणिजए तेण तम्मि व जमत्थो । गंथिज्जइ तेण तओ तम्मि व तो तं मयं गंथो ॥१३८३॥
सूत्रशब्दार्थस्तावत् प्रागेव भणितः । तन्त्रशब्दार्थस्तूच्यते- 'तनु विस्तारे' तन्यते विस्तार्यते यद् यस्मादनेन, अस्मात् , अस्मिन् वार्थ इति तन्त्रम् । अथवा, तन्यते विशिष्टरचनया तदेव विस्तार्यत इति तन्त्रं सूत्रमेयोच्यते । तथा, प्रथ्यतेऽनेन, अस्मात् , अस्मिन् वार्थ इति तदेव ग्रन्थ उच्यते । अथवा, तदेव प्रथ्यते विरच्यत इति ग्रन्थः ॥ १३८३।।
पाठ-शास्त्रयोः शब्दार्थमाह
पैढणं पाढो तं तेण तम्मि व पढिजएऽभिधेयं ति ! सासिज्जए तेण तहिं व नेयमाया व तो सत्थं ॥१३८४॥
पठन पाठः, पठ्यते वा व्यक्तीक्रियते तदिति पाठः। पठ्यतेऽभिधेयमनेन, अस्मात, अस्मिन्निति वा पाठः । 'शासु अनुशिष्टौ' शास्यते ज्ञेयमात्मा वाऽनेन, अस्मात् , अस्मिन्निति वा शास्त्रम्, शास्यते कथ्यते तदिति वा शारणम् । इति गाथाषदार्थः । तदेवमभिहितः मूत्रैकार्थिकविभागः॥ १३८४ ॥ अथार्थकाधिकानि वक्तव्यानि, तत्राऽर्थः, व्याख्यानम् , अनुयोग इत्यनान्तरम्, इत्यनुयोगकार्थिकान्याह
, प्रकृताभिविधौ प्रवचनं प्रावचनमादिवचनं वा । शिवप्रापकवचनं वा प्रावचनं, प्रवचनं भणितम् ॥ १३८॥ २ सूत्र भणितं तन्त्रं तन्यते तेन तस्मिन् वा यदर्थः । प्रध्यते तेन ततस्तस्मिन् वा ततस्तद् मतं ग्रन्थः ॥ १३८३॥
३ पठनं पाठस्तत् तेन तस्मिन् वा पठ्यतेऽभिधेयमिति । शास्यते तेन तस्मिन् वा ज्ञेयमात्मा वा ततः शास्त्रम् ॥ १३८४॥ अणुओगो य निओगो भास-विभासा य वत्तियं चेव । एए अणुओगस्स उनामा एगडिया पंच॥ १३८५ ॥ अनुयोगः, नियोगः, भाषा, विभाषा, वार्तिकम् , इति पश्चानुयोगैकार्थिकानि ॥ इति नियुक्तिगाथासंक्षेपार्थः ॥ १३८५ ॥ अथानुयोगशब्दार्थ प्रागुक्तमपि विस्मरणशीलविनेयानुग्रहार्थं पुनरप्याहअणुओयणमणुओगो सुयस्स नियएण जमभिधेएणं ।वावारोवाजोगो जो अणुरूवोऽणुकूलो वा॥ १३८६ ॥
अहवा जमत्थओ थोव-पच्छभावेहिं सुयमणुं तस्स ।अभिधेये वावारो जोगो तेणं व संबंधो ॥ १३८७ ॥
यत् सूत्रस्य निजेनाभिधेयेनार्थेनानुयोजनं संबन्धनं सोऽनुयोगः। अथवा, योगो व्यापार उच्यते । ततश्चानुरूपोऽनुकूलो वा योगः सूत्रस्य निजेऽभिधेये व्यापारः, यथा घटशब्देन घटोऽभिधीयत इत्यनुयोगः । अथवा, सूत्रमणु इत्युच्यते । कुतः १ । यस्मादर्थस्थानन्तत्वात् तदपेक्षया सूत्रमणु । अथवा, "उप्पन्नेइ वा" इत्यादितीर्थकरोक्तार्थात् पश्चादेव गणधराः सूत्रं कुर्वन्ति, इतरकवयोऽप्यर्थ हृदये निवेश्य ततः काव्यं कुर्वन्ति, इत्येवमर्थात् पश्चादेव भवनात् मूत्रमणु व्यपदिश्यते । ततस्तस्याणोः सूत्रस्याभिधेये व्यापारो योगोऽणुयोगः । तेन वाऽणुना सूत्रेण सहाभिधेयस्य योगः संबन्धोऽणुयोगः॥ इति गाथाद्वयार्थः ॥ १३८६ ॥ १३८७॥
अथानुयोगस्यैव संभवन्तं नामादिनिक्षेपमाह- .
नाम ठवणा दविए खेत्ते काले वयण-भावे य । एसो अणुओगस्स उ निक्खेवो होइ सत्तविहो ॥ १३८८ ॥
नामानुयोगः, स्थापनानुयोगः, द्रव्यानुयोगः, क्षेत्रानुयोगः, कालानुयोगः, वचनानुयोगः, भावानुयोगः । एषोऽनुयोगस्य सप्तविधो निक्षेपः।। इति नियुक्तिगाथासंक्षेपार्थः॥ १३८८॥
विस्तरार्थ त्वभिधित्सुर्भाग्यकारो नाम-स्थापनानुयोगस्वरूपं तावदाह
१ अनुयोगश्च नियोगो भाषा-विभाषे च कार्तिक चैव । एतान्यनुयोगस्य तु नामान्यकार्थिकानि एज १३०५॥ २ अनुयोजनमनुयोगः श्रुतस्य नियतेन यदभिधेयेन । व्यापारो वा योगो योऽनुरूपोऽनुकूलो वा ॥ १३८६॥
अथवा यदर्थतः स्तोक-पश्चाद्धावाभ्यां श्रुतमणु तस्य । अभिधेये व्यापारो योगस्तेन वा संबन्धः ।। १३८७॥ ३ उत्पचन्ते वा। नाम स्थानपना द्रव्यं क्षेत्र कालो वचन-भाचौ च । एषोऽनुयोगस्य तु निक्षेपो भवति सप्तविधः ॥ १३८८॥
पासतापा.६८८॥
For Private and Personal Use Only